श्रवणम्

5.55.4
आ॒भू॒षेण्यं᳚ वो मरुतो महित्व॒नं दि᳚दृ॒क्षेण्यं॒ सूर्य᳚स्येव॒ चक्ष᳚णम् ।
उ॒तो अ॒स्मा{4} अ᳚मृत॒त्वे द᳚धातन॒ शुभं᳚ या॒तामनु॒ रथा᳚ अवृत्सत ॥
▶ पदपाठः (Word-by-word)
आ॒॑भू॒षेण्य᳚म् । वः॒ । म॒रु॒तः॒ । म॒हि॒॑त्व॒नम् । दि॒दृ॒क्षेण्य᳚म् । सूर्य᳚स्य॑इव । चक्ष᳚णम् ।
उ॒तो इति᳚ । अ॒स्मान् । अ॒मृ॒त॒॑त्वे । द॒धा॒त॒न॒ । शुभ᳚म् । या॒ताम् । अनु᳚ । रथाः᳚ । अ॒वृ॒त्स॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः वोयुष्माकं महित्वनं महत्त्वं आभूषेण्यं स्तुत्यं किंच सूर्यस्येवचक्षणंरूपमिवदिदृक्षेण्यं दर्शनीयं उतोअपिचास्मान् अमृतत्वे मोक्षेस्वर्गइत्यर्थः तत्रदधातन धारयत शिष्टंगतं ॥ ४ ॥ कारीर्यांप्रथमस्याः पिंड्याउदीरयथेत्यनुवाक्या सूत्रितंच-उदीरयथामरुतः समुद्रतः प्रवोमरुतस्तविषाउदन्यवइति ।