यत्पू॒र्व्यं म᳚रुतो॒ यच्च॒ नूत᳚नं॒ यदु॒द्यते᳚ वसवो॒ यच्च᳚ श॒स्यते᳚ ।
विश्व᳚स्य॒ तस्य᳚ भवथा॒ नवे᳚दस॒ः शुभं᳚ या॒तामनु॒ रथा᳚ अवृत्सत ॥
विश्व᳚स्य॒ तस्य᳚ भवथा॒ नवे᳚दस॒ः शुभं᳚ या॒तामनु॒ रथा᳚ अवृत्सत ॥
पदपाठः (Word-by-word)
यत् । पू॒र्व्यम् । म॒रु॒तः॒ । यत् । च॒ । नूत᳚नम् । यत् । उ॒द्यते᳚ । व॒स॒वः॒ । यत् । च॒ । श॒स्यते᳚ ।
विश्व᳚स्य । तस्य᳚ । भ॒व॒थ॒ । नवे᳚दसः । शुभ᳚म् । या॒ताम् । अनु᳚ । रथाः᳚ । अ॒वृ॒त्स॒त॒ ॥
विश्व᳚स्य । तस्य᳚ । भ॒व॒थ॒ । नवे᳚दसः । शुभ᳚म् । या॒ताम् । अनु᳚ । रथाः᳚ । अ॒वृ॒त्स॒त॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेमरुतोयूयं यत्पूर्व्यं पूर्वतनं पूर्वमनुष्ठितंयत्कर्मास्तितदित्यर्थः यच्चनूतनं कर्मास्ति यच्चोद्यते ऊर्ध्वंप्राप्यते स्तूयतेइत्यर्थः हेवस्वोवास- काः यच्च शस्यते शंसनंक्रियते तस्य विश्वस्योत्कृष्टस्य नवेदसः जानन्तोभवथ ॥ ८ ॥