पञ्चमं मण्डलम् - सूक्तम् 52

17 ऋचः

ऋषिः: श्यावाश्व आत्रेयः देवता: मरुतः छन्दः: अनुष्टुप्

सूक्तम् 5.52 - सम्पूर्णम्

1 / 17
ऋक्: 5.52.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (17)
5.52.1 समानपद
प्र श्या᳚वाश्व धृष्णु॒यार्चा᳚ म॒रुद्भि॒रृक्व᳚भिः ।
ये अ᳚द्रो॒घम᳚नुष्व॒धं श्रवो॒ मद᳚न्ति य॒ज्ञिया᳚ः ॥
▶ पदपाठः (Word-by-word)
प्र । श्या॒व॒॑अ॒श्व॒ । धृ॒ष्णु॒॑या । अर्च᳚ । म॒रुत्॑भिः᳚ । ऋक्व᳚॑भिः ।
ये । अ॒द्रो॒घम् । अ॒नु॒॑स्व॒धम् । श्रवः᳚ । मद᳚न्ति । य॒ज्ञियाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेश्यावाश्व एतन्नामकऋषे धृष्णुया धृष्णुत्वं ऋक्वभिः मरुद्भिः स्तुत्यान् मरुतः प्रार्च द्वितीयार्थेतृतीया एवं स्वयमेवसंप्रेष्यति यद्वा यजमानोहोतारंश्यावाश्वंब्रूते यद्वा मरुद्भिर्मरुत्सदृशैरृक्वभिः स्तोतृभिः सहस्तोत्रैर्वार्च स्तुहीत्यर्थः येमरुतोयज्ञियायज्ञार्हाअनुष्वधं प्रत्य- हंहविर्लक्षणान्नप्रदानं स्वधानुपश्चाद्वा अद्रोघमहिंसकं श्रवोन्नंलब्ध्वा मदन्तिहृष्यन्ति ॥ १ ॥

5.52.2 समानपद
ते हि स्थि॒रस्य॒ शव᳚स॒ः सखा᳚य॒ः सन्ति᳚ धृष्णु॒या ।
ते याम॒न्ना धृ᳚ष॒द्विन॒स्त्मना᳚ पान्ति॒ शश्व᳚तः ॥
▶ पदपाठः (Word-by-word)
ते । हि । स्थि॒रस्य᳚ । शव᳚सः । सखा᳚यः । सन्ति᳚ । धृ॒ष्णु॒॑या ।
ते । याम᳚न् । आ । धृ॒ष॒त्॑विनः᳚ । त्मना᳚ । पा॒न्ति॒ । शश्व᳚तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

तेहि तेखलु स्थिरस्याविचलितस्य शवसोबलस्य सखायःसन्ति भवन्ति मह्यंधृष्णुया धृष्णवः तेचयामन्ना आइतिचार्थे गमनेपि धृष- द्विनोधर्षणवन्तः त्मना आत्मना अनुग्रहेणैव अस्मदुपकारमनपेक्ष्यैव शश्वतोबहूनस्मान् पुत्रभृत्यादीन् पान्तिरक्षन्ति ॥ २ ॥

5.52.3 समानपद
ते स्य॒न्द्रासो॒ नोक्षणो॑ति᳚ ष्कन्दन्ति॒ शर्व᳚रीः ।
म॒रुता॒मधा॒ महो᳚ दि॒वि क्ष॒मा च᳚ मन्महे ॥
▶ पदपाठः (Word-by-word)
ते । स्य॒न्द्रासः᳚ । न । उ॒क्षणः᳚ । अति᳚ । स्क॒न्द॒न्ति॒ । शर्व᳚रीः ।
म॒रुता᳚म् । अध᳚ । महः᳚ । दि॒वि । क्ष॒मा । च॒ । म॒न्म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः स्पंद्रासः स्पन्दनशीलाः उक्षणोजलस्यसेक्तारश्च नेतिचार्थे यस्मात्स्पन्द्राः अन्येषांतस्मात् शर्वरीः शर्वर्योरात्रयः कालावयवा- नित्यर्थः तानतिस्कन्दन्ति अतिक्रम्यगच्छन्ति नित्याइत्यर्थः यस्मादेतेएवंविधाः तस्मात् मरुतां अध अधुना महस्तेजोदिविद्युलोके क्षमा क्षमायांभूमौचवर्तमानं मन्महे स्तुमः ॥ ३ ॥

5.52.4 समानपद
म॒रुत्सु᳚ वो दधीमहि॒ स्तोमं᳚ य॒ज्ञं च᳚ धृष्णु॒या ।
विश्वे॒ ये मानु᳚षा यु॒गा पान्ति॒ मर्त्यं᳚ रि॒षः ॥
▶ पदपाठः (Word-by-word)
म॒रुत्॑सु᳚ । वः॒ । द॒धी॒म॒हि॒ । स्तोम᳚म् । य॒ज्ञम् । च॒ । धृ॒ष्णु॒॑या ।
विश्वे᳚ । ये । मानु᳚षा । यु॒गा । पान्ति᳚ । मर्त्य᳚म् । रि॒षः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअध्वर्युहोत्रादयोवोयूयंमरुत्सु धृष्णुया धर्षकेषु दधीमहि व्यत्ययेनोत्तमः धत्त किं स्तोमं स्तोत्रं यज्ञंच इज्यते अनेनेतियज्ञंहविः तदु- भयंकिमर्थंदीयतइति येमरुतोविश्वेसर्वेपि मानुषा मानुषाणि युगा युगानि सर्वेषुकालेष्वित्यर्थः मर्त्यं मरणधर्माणं यजमानं रिषोहिंसकात् सकाशात्पान्ति रक्षन्ति ॥ ४ ॥

5.52.5
अर्ह᳚न्तो॒ ये सु॒दान᳚वो॒ नरो॒ असा᳚मिशवसः ।
प्र य॒ज्ञं य॒ज्ञिये᳚भ्यो दि॒वो अ᳚र्चा म॒रुद्भ्य᳚ः ॥
▶ पदपाठः (Word-by-word)
अर्ह᳚न्तः । ये । सु॒॑दान᳚वः । नरः᳚ । असा᳚मि॑शवसः ।
प्र । य॒ज्ञम् । य॒ज्ञिये᳚भ्यः । दि॒वः । अ॒र्च॒ । म॒रुत्॑भ्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेहोतः हेआत्मन्वा येअर्हन्तः पूज्याः सुदानवः शोभनदानाः नरोनेतारः कर्मणां असामिशवसोऽनल्पबलाःसन्ति तेभ्य़ोयज्ञियेभ्योयज्ञा- र्हेभ्योदिवोद्योतमानेभ्योमरुद्भ्यः विभक्तिवचनयोर्व्यत्ययः यद्वा कर्मणिषष्ठी दीप्तं यज्ञं यज्ञसादहनंहविः प्रार्च पूजय प्रयच्छेत्यर्थः अथवा दिवोन्तरिक्षादागतेभ्यइतिसंबन्धः ॥ ५ ॥

5.52.6
आ रु॒क्मैरा यु॒धा नर᳚ ऋ॒ष्वा ऋ॒ष्टीर᳚सृक्षत ।
अन्वे᳚ना{4}॒ अह᳚ वि॒द्युतो᳚ म॒रुतो॒ जझ्झ᳚तीरिव भा॒नुर᳚र्त॒ त्मना᳚ दि॒वः ॥
▶ पदपाठः (Word-by-word)
आ । रु॒क्मैः । आ । यु॒धा । नरः᳚ । ऋ॒ष्वाः । ऋ॒ष्टीः । अ॒सृ॒क्ष॒त॒ ।
अनु᳚ । ए॒ना॒न् । अह᳚ । वि॒॑द्युतः᳚ । म॒रुतः᳚ । जझ्झ᳚तीः॑इव । भा॒नुः । अ॒र्त॒ । त्मना᳚ । दि॒वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

नरोवृष्टेर्नेतारः ऋष्वाः महान्तोमरुतोरुक्मैः रोचमानैराभरणविशेषैरारोचन्तइतिशेषः उपसर्गश्रुतेः संगतक्रियाध्याहारः तथायुधा- प्रहरणसाधनेनायुधेन आरोचन्ते एते मरुतः ऋष्टीः आयुधविशेषान् असृक्षत प्रक्षिपन्ति मेघभेदार्थं एनान्मरुतोविद्युतोपि जज्झतीरिव शब्दकारिण्यआपइव जज्झतीरापोभवन्तिशब्दकारिण्यइअतिनिरुक्तम् । अन्वहअनुगच्छन्त्येव दिवोद्योतमानस्य मरुद्गणस्य भानुर्दीप्तिः त्मना स्वयमेव अत निरगात् ॥ ६ ॥

5.52.7 समानपद
ये वा᳚वृ॒धन्त॒ पार्थि᳚वा॒ य उ॒राव॒न्तरि᳚क्ष॒ आ ।
वृ॒जने᳚ वा न॒दीनां᳚ स॒धस्थे᳚ वा म॒हो दि॒वः ॥
▶ पदपाठः (Word-by-word)
ये । व॒वृ॒धन्त᳚ । पार्थि᳚वाः । ये । उ॒रौ । अ॒न्तरि᳚क्षे । आ ।
वृ॒जने᳚ । वा॒ । न॒दीना᳚म् । स॒ध॑स्थे᳚ । वा॒ । म॒हः । दि॒वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

येमरुतः पार्थिवाः पृथिवीसंबद्धाः सन्तोववृधन्तवर्धन्ते येचोरौ महत्यन्तरिक्षेच ववृधन्त आइतिचार्थे नदीनां नदनवतीनां वृजनेवा- बलेववृधन्त महोमहतः दिवोद्युलोकस्य सधस्थेवा सहस्थानेच ववृधन्त उभयत्रवाशब्दश्चार्थे एवंसर्वत्रवर्धमानामरुतोवृष्ट्यर्थंऋष्टीरसृ- क्षतेतिपूर्वत्रसंबन्धः ॥ ७ ॥

5.52.8
शर्धो॒ मारु᳚त॒मुच्छं᳚स स॒त्यश᳚वस॒मृभ्व᳚सम् ।
उ॒त स्म॒ ते शु॒भे नर॒ः प्र स्य॒न्द्रा यु᳚जत॒ त्मना᳚ ॥
▶ पदपाठः (Word-by-word)
शर्धः᳚ । मारु᳚तम् । उत् । शं॒स॒ । स॒त्य॑श᳚वसम् । ऋभ्व᳚सम् ।
उ॒त । स्म॒ । ते । शु॒भे । नरः᳚ । प्र । स्य॒न्द्राः । यु॒ज॒त॒ । त्मना᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेस्तोतः मारुतं शर्धोबलं उदुत्कृष्टं शंस स्तुहि कीदृशं शर्धः सत्यशवसं सत्यवेगं ऋभ्वसं महदतिप्रवृद्धं उतस्मापिच नरोवृष्टेर्नेतारस्ते- मरुतः शुभे उदकार्थं प्रयुजत प्रयुंजत समयोजयन् त्मना आत्मनैव जगद्रक्षाबुध्यैव स्पन्द्राः चलनस्वभावाः पृषतीरित्यर्थः ॥ ८ ॥

5.52.9
उ॒त स्म॒ ते परु᳚ष्ण्या॒मूर्णा᳚ वसत शु॒न्ध्यवः᳚ ।
उ॒त प॒व्या रथा᳚ना॒मद्रिं᳚ भिन्द॒न्त्योज᳚सा ॥
▶ पदपाठः (Word-by-word)
उ॒त । स्म॒ । ते । परु᳚ष्ण्याम् । ऊर्णाः᳚ । व॒स॒त॒ । शु॒न्ध्यवः᳚ ।
उ॒त । प॒व्या । रथा᳚नाम् । अद्रि᳚म् । भि॒न्द॒न्ति॒ । ओज᳚सा ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतस्म अपिच तेमरुतः परुष्णयां एतन्नामिकायांनद्यां वर्तन्ते यऊर्णाः दीप्तीः शुन्ध्यवः शोधिकाः अपः वसत आच्छादयन्ति तेउता- पिच प्व्या नेम्या रथानां स्वकीयानां रथचक्रेणौजसा बलेनचाद्रिंभिन्दन्ति मेघंगिरिंवाविदारयन्ति ॥ ९ ॥

5.52.10
आप᳚थयो॒ विप᳚थ॒यो॑न्त᳚स्पथा॒ अनु᳚पथाः ।
ए॒तेभि॒र्मह्यं॒ नाम᳚भिर्य॒ज्ञं वि᳚ष्टा॒र ओ᳚हते ॥
▶ पदपाठः (Word-by-word)
आप᳚थयः । वि॑प᳚थयः । अन्तः᳚॑पथाः । अनु᳚॑पथाः ।
ए॒तेभिः᳚ । मह्य᳚म् । नाम᳚॑भिः । य॒ज्ञम् । वि॒॑स्ता॒रः । ओ॒ह॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आपथयः अस्मदभिमुखामार्गायेषांतेतादृशाः विपथयोविष्वङ्मार्गाः अन्तस्पथाः दरीसुषिरादिमार्गाः अनुपथाः अनुकूलमार्गाश्च येम- रुतः सन्ति ते एतेभिः एतैश्चतुर्विधैर्नामभिर्नामकैः स्वरूपैर्मह्यं मदर्थं यज्ञं विस्तारः विस्तृताः सन्तः ओहते वहन्ति यद्वा एतैर्नामभिरुदकैः सार्धंयज्ञमोहते ॥ १० ॥

5.52.11
अधा॒ नरो॒ न्यो᳚ह॒ते॑धा᳚ नि॒युत᳚ ओहते ।
अधा॒ पारा᳚वता॒ इति᳚ चि॒त्रा रू॒पाणि॒ दर्श्या᳚ ॥
▶ पदपाठः (Word-by-word)
अध᳚ । नरः᳚ । नि । ओ॒ह॒ते॒ । अध᳚ । नि॒॑युतः᳚ । ओ॒ह॒ते॒ ।
अध᳚ । पारा᳚वताः । इति᳚ । चि॒त्रा । रू॒पाणि᳚ । दर्श्या᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अध अथ नरोभिमतवृष्ट्यादिनेतारोन्योहते नितरांहवन्तिजगत् अध नियुतः स्वयमेव मिश्रयितारः सन्तः ओहते अधाथ पारावताः परवद्दूरदेशःतत्संबन्धिनश्च अन्तरिक्षादिदूरदेशे ग्रहतारामेघादिधारकाः सन्तः ओहतइत्यर्थः इतिउक्तप्रकारेण तेषांरूपाणि चित्रा नानाविधानि चायनीयानिवा दर्श्यास्वव्यापारैर्दर्शनीयानिभवंत्वितिशेषः ॥ ११ ॥

5.52.12
छ॒न्द॒ःस्तुभः᳚ कुभ॒न्यव॒ उत्स॒मा की॒रिणो᳚ नृतुः ।
ते मे॒ के चि॒न्न ता॒यव॒ ऊमा᳚ आसन्दृ॒शि त्वि॒षे ॥
▶ पदपाठः (Word-by-word)
छ॒न्दः॒॑स्तुभः᳚ । कु॒भ॒न्यवः᳚ । उत्स᳚म् । आ । की॒रिणः᳚ । नृ॒तुः॒ ।
ते । मे॒ । के । चि॒त् । न । ता॒यवः᳚ । ऊमाः᳚ । आ॒स॒न् । दृ॒शि । त्वि॒षे ॥
▶ सायणभाष्यम् (Sayana Commentary)

छन्दःस्तुभः छन्दोभिः स्तोतारः कुभन्यवः उदकेच्छवः कीरिणः स्तोतारः उत्सं कूपमपेक्ष्य तृषिताय गोतमाय यान्मरुतः आनृतुः सर्वतोऽकुर्वन् अनयन्वास्तोत्रं यद्वा येछन्दस्तुभः छन्दोभिःस्तुत्याः स्तोभतिःस्तुतिकर्मा कुभन्यवः सेक्तारोवृष्ट्युदकस्य कुभिरुन्दनकर्मा कीरिणः स्तोतुः गोतमस्यपानार्थं उत्सं कूपं आनृतुः आनीतवन्तः असिंचन्नुत्संगोतमायतृष्णजइतिह्युक्तम् । नॄनयेइत्यस्यवानर्ततेर्वाविक्षेप- मात्रार्थस्येदंरूपं तेमरुतः केचित् मे मह्यं तायवोन कदाचिदप्यदृश्यास्तस्कराइवस्थिताः ऊमारक्षकाः दृशिदर्शने आसन् विषयभूताअ- भवन् केचित् त्विषे शरीरदीप्त्यै बलायवासन् प्राणरूपेणेतिभावः ॥ १२ ॥

5.52.13
य ऋ॒ष्वा ऋ॒ष्टिवि᳚द्युतः क॒वय॒ः सन्ति᳚ वे॒धसः᳚ ।
तमृ᳚षे॒ मारु᳚तं ग॒णं न᳚म॒स्या र॒मया᳚ गि॒रा ॥
▶ पदपाठः (Word-by-word)
यः । ऋ॒ष्वाः । ऋ॒ष्टि॑वि᳚द्युतः । क॒वयः᳚ । सन्ति᳚ । वे॒धसः᳚ ।
तम् । ऋ॒षे॒ । मारु᳚तम् । ग॒णम् । न॒म॒स्य । र॒मय᳚ । गि॒रा ॥
▶ सायणभाष्यम् (Sayana Commentary)

येमरुतः ऋष्वाः दर्शनीयाः ऋष्टिविद्युतः आयुधैर्विद्योतमानाः कवयोमेधाविनोवेधसः सर्वत्रविधातारः सन्ति तं तेषांमारुतंगणं रमया रमणीययागिरास्तुत्या हेऋषे श्यावाश्व नमस्य परिचर स्तुहि ॥ १३ ॥

5.52.14
अच्छ᳚ ऋषे॒ मारु᳚तं ग॒णं दा॒ना मि॒त्रं न यो॒षणा᳚ ।
दि॒वो वा᳚ धृष्णव॒ ओज᳚सा स्तु॒ता धी॒भिरि᳚षण्यत ॥
▶ पदपाठः (Word-by-word)
अच्छ᳚ । ऋ॒षे॒ । मारु᳚तम् । ग॒णम् । दा॒ना । मि॒त्रम् । न । यो॒षणा᳚ ।
दि॒वः । वा॒ । धृ॒ष्ण॒वः॒ । ओज᳚सा । स्तु॒ताः । धी॒भिः । इ॒ष॒ण्य॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेऋषे मारुतंगणं मरुत्संघं मित्रंन आदित्यमिव दाना हविर्दानेन योषणा यौतेरिदंरूपं यौतीतियोषास्तुतिः तयाचाच्छ आगच्छेति- शेषः ऋषेः उत्तरार्धःप्रत्यक्षवादः ओजसा बलेन हेधृष्णवोधर्षकामरुतः दिवोवा द्युलोकाद्वा वाशब्दश्रुतेरितरलोकद्वयाद्वा धीभिरस्मदी- याभिःस्तुतिभिः स्तुताइषण्यत गच्छतयज्ञं ॥ १४ ॥

5.52.15
नू म᳚न्वा॒न ए᳚षां दे॒वा{4} अच्छा॒ न व॒क्षणा᳚ ।
दा॒ना स᳚चेत सू॒रिभि॒र्याम᳚श्रुतेभिर॒ञ्जिभि᳚ः ॥
▶ पदपाठः (Word-by-word)
नु । म॒न्वा॒नः । ए॒षा॒म् । दे॒वान् । अच्छ᳚ । न । व॒क्षणा᳚ ।
दा॒ना । स॒चे॒त॒ । सू॒रि॑भिः᳚ । याम᳚॑श्रुतेभिः । अ॒ञ्जि॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नुक्षिप्रं एषां मरुतां एतान्मरुतइत्यर्थः मन्वानः स्तुवन् देवान्मरुद्भतिरिक्तान् वक्षणा वहनेननिमित्तेन अच्छ अभिप्राप्तुंनमनुते सस्तोता सूरिभिर्मेधाविभिः प्रेरयितृभिः यामश्रुतेभिः शीघ्रगमनेनविश्रुतैः अंजिभिः फलस्यव्यंजकैर्मरुद्भिः सर्वाः पंचम्यर्थेतृतीयाः उक्त- लक्षणेभ्योमरुद्भ्योदानाअभिमतदानानि सचेतसंगच्छते ॥ १५ ॥

5.52.16
प्र ये मे᳚ बन्ध्वे॒षे गां वोच᳚न्त सू॒रय॒ः पृश्निं᳚ वोचन्त मा॒तर᳚म् ।
अधा᳚ पि॒तर᳚मि॒ष्मिणं᳚ रु॒द्रं वो᳚चन्त॒ शिक्व᳚सः ॥
▶ पदपाठः (Word-by-word)
प्र । ये । मे॒ । ब॒न्धु॒॑ए॒षे । गाम् । वोच᳚न्त । सू॒रयः᳚ । पृश्नि᳚म् । वो॒च॒न्त॒ । मा॒तर᳚म् ।
अध᳚ । पि॒तर᳚म् । इ॒ष्मिण᳚म् । रु॒द्रम् । वो॒च॒न्त॒ । शिक्व᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

येमरुतोमेमह्यं बन्ध्वेषे स्वेषांबन्धूनामन्वेषणेसति सूरयः प्रेरकाः गां माध्यमिकांवाचं गोदेवतांवा प्रवोचन्त प्रावोचन् अवशिष्टमृषे- र्वाक्यं मेऋषिर्मरुद्वाक्यमनुवदति तस्मादुत्तरयोर्निघातयोर्यच्छब्दानन्वयान्निघातः तेपृश्निं द्युदेवतां पृश्निवर्णांगांवा मातरंवोचन्तअब्रुवन् पृश्नियैवैपयसोमरुतोजाताइतिश्रुतेः । अधाथ पितरं स्वकीयं इष्मिणं गमनवन्तमन्नवन्तंवा रुद्रं वोचन्त शिक्वसः शक्तास्ते मरुतां रुद्रेण- पुत्रत्वपरिग्रहोबहुकृत्वउपपादितः ॥ १३ ॥

5.52.17
स॒प्त मे᳚ स॒प्त शा॒किन॒ एक᳚मेका श॒ता द᳚दुः ।
य॒मुना᳚या॒मधि᳚ श्रु॒तमुद्राधो॒ गव्यं᳚ मृजे॒ नि राधो॒ अश्व्यं᳚ मृजे ॥
▶ पदपाठः (Word-by-word)
स॒प्त । मे॒ । स॒प्त । शा॒किनः᳚ । एक᳚म्॑एका । श॒ता । द॒दुः॒ ।
य॒मुना᳚याम् । अधि᳚ । श्रु॒तम् । उत् । राधः᳚ । गव्य᳚म् । मृ॒जे॒ । नि । राधः᳚ । अश्व्य᳚म् । मृ॒जे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सप्त सप्तसंख्याकाः संघा सप्तगणावैमरुतइतिश्रुतेः । दितिगर्भेवर्तमानंवायुमिन्द्रः प्रविश्य सप्तधाविदार्य पुनरकैकं सप्तधाव्यदारयत् तेएकोनपंचाशन्मरुद्गणाअभवन्नितिपुराणेषुप्रसिद्धं तेच सप्तसप्तसंख्याकाः शाकिनः सर्वमप्;इकर्तुंशक्ताः तेचैकमेका एकैकोगणोमह्यंशता शतसंख्यानि गवाश्वयूथानिददुः दत्तवन्तः प्रयच्छन्त्वितिवाआशीः तैर्दत्तं यमुनायांनद्यां अधि अयंसप्तम्यर्थानुवादी तत्रश्रुतं प्रसिद्धं गव्यं गोसमूहात्मकं गोसंबन्धिवा राधोधनं अन्मृजे अन्मार्जयामि तथातैर्दत्तं अश्व्यं अश्वसमूहात्मकं तत्संबन्धिवा राधोनिमृजे निमार्ज्मि ॥ १७ ॥

कोवेदजानमितिषोडशर्चंनवमंसूक्तं श्यावाश्वऋषिः आद्यापंचमीदशम्येकादशीपंचदश्यः ककुभः षष्ठीसप्तमीनवमीत्रयोदशीचतुर्दशी- षोळ्श्यःसतोबृहत्यः अष्टमीद्वादशीचगायत्र्यौ द्वितीयाबृहती तृतीयाअनुष्टुप् चतुर्थीपुरउष्णिक् मरुतोदेवता तथाचानुक्रान्तं-कोवेदषोळ- शककुब्बृहत्यनुष्टुप् पुरउष्णिक् ककुप्सतोबृहत्यौगायत्रीसतोबृहतीककुभौगायत्रीसतोबृहत्यौककुप्सतोबृहतीति । विनियोगोलैंगिकः ।