य॒मुना᳚या॒मधि᳚ श्रु॒तमुद्राधो॒ गव्यं᳚ मृजे॒ नि राधो॒ अश्व्यं᳚ मृजे ॥
पदपाठः (Word-by-word)
य॒मुना᳚याम् । अधि᳚ । श्रु॒तम् । उत् । राधः᳚ । गव्य᳚म् । मृ॒जे॒ । नि । राधः᳚ । अश्व्य᳚म् । मृ॒जे॒ ॥
सायणभाष्यम् (Sayana Commentary)
सप्त सप्तसंख्याकाः संघा सप्तगणावैमरुतइतिश्रुतेः । दितिगर्भेवर्तमानंवायुमिन्द्रः प्रविश्य सप्तधाविदार्य पुनरकैकं सप्तधाव्यदारयत् तेएकोनपंचाशन्मरुद्गणाअभवन्नितिपुराणेषुप्रसिद्धं तेच सप्तसप्तसंख्याकाः शाकिनः सर्वमप्;इकर्तुंशक्ताः तेचैकमेका एकैकोगणोमह्यंशता शतसंख्यानि गवाश्वयूथानिददुः दत्तवन्तः प्रयच्छन्त्वितिवाआशीः तैर्दत्तं यमुनायांनद्यां अधि अयंसप्तम्यर्थानुवादी तत्रश्रुतं प्रसिद्धं गव्यं गोसमूहात्मकं गोसंबन्धिवा राधोधनं अन्मृजे अन्मार्जयामि तथातैर्दत्तं अश्व्यं अश्वसमूहात्मकं तत्संबन्धिवा राधोनिमृजे निमार्ज्मि ॥ १७ ॥
कोवेदजानमितिषोडशर्चंनवमंसूक्तं श्यावाश्वऋषिः आद्यापंचमीदशम्येकादशीपंचदश्यः ककुभः षष्ठीसप्तमीनवमीत्रयोदशीचतुर्दशी- षोळ्श्यःसतोबृहत्यः अष्टमीद्वादशीचगायत्र्यौ द्वितीयाबृहती तृतीयाअनुष्टुप् चतुर्थीपुरउष्णिक् मरुतोदेवता तथाचानुक्रान्तं-कोवेदषोळ- शककुब्बृहत्यनुष्टुप् पुरउष्णिक् ककुप्सतोबृहत्यौगायत्रीसतोबृहतीककुभौगायत्रीसतोबृहत्यौककुप्सतोबृहतीति । विनियोगोलैंगिकः ।