श्रवणम्

5.52.16
प्र ये मे᳚ बन्ध्वे॒षे गां वोच᳚न्त सू॒रय॒ः पृश्निं᳚ वोचन्त मा॒तर᳚म् ।
अधा᳚ पि॒तर᳚मि॒ष्मिणं᳚ रु॒द्रं वो᳚चन्त॒ शिक्व᳚सः ॥
▶ पदपाठः (Word-by-word)
प्र । ये । मे॒ । ब॒न्धु॒॑ए॒षे । गाम् । वोच᳚न्त । सू॒रयः᳚ । पृश्नि᳚म् । वो॒च॒न्त॒ । मा॒तर᳚म् ।
अध᳚ । पि॒तर᳚म् । इ॒ष्मिण᳚म् । रु॒द्रम् । वो॒च॒न्त॒ । शिक्व᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

येमरुतोमेमह्यं बन्ध्वेषे स्वेषांबन्धूनामन्वेषणेसति सूरयः प्रेरकाः गां माध्यमिकांवाचं गोदेवतांवा प्रवोचन्त प्रावोचन् अवशिष्टमृषे- र्वाक्यं मेऋषिर्मरुद्वाक्यमनुवदति तस्मादुत्तरयोर्निघातयोर्यच्छब्दानन्वयान्निघातः तेपृश्निं द्युदेवतां पृश्निवर्णांगांवा मातरंवोचन्तअब्रुवन् पृश्नियैवैपयसोमरुतोजाताइतिश्रुतेः । अधाथ पितरं स्वकीयं इष्मिणं गमनवन्तमन्नवन्तंवा रुद्रं वोचन्त शिक्वसः शक्तास्ते मरुतां रुद्रेण- पुत्रत्वपरिग्रहोबहुकृत्वउपपादितः ॥ १३ ॥