आ रु॒क्मैरा यु॒धा नर᳚ ऋ॒ष्वा ऋ॒ष्टीर᳚सृक्षत ।
अन्वे᳚ना{4}॒ अह᳚ वि॒द्युतो᳚ म॒रुतो॒ जझ्झ᳚तीरिव भा॒नुर᳚र्त॒ त्मना᳚ दि॒वः ॥
अन्वे᳚ना{4}॒ अह᳚ वि॒द्युतो᳚ म॒रुतो॒ जझ्झ᳚तीरिव भा॒नुर᳚र्त॒ त्मना᳚ दि॒वः ॥
पदपाठः (Word-by-word)
आ । रु॒क्मैः । आ । यु॒धा । नरः᳚ । ऋ॒ष्वाः । ऋ॒ष्टीः । अ॒सृ॒क्ष॒त॒ ।
अनु᳚ । ए॒ना॒न् । अह᳚ । वि॒॑द्युतः᳚ । म॒रुतः᳚ । जझ्झ᳚तीः॑इव । भा॒नुः । अ॒र्त॒ । त्मना᳚ । दि॒वः ॥
अनु᳚ । ए॒ना॒न् । अह᳚ । वि॒॑द्युतः᳚ । म॒रुतः᳚ । जझ्झ᳚तीः॑इव । भा॒नुः । अ॒र्त॒ । त्मना᳚ । दि॒वः ॥
सायणभाष्यम् (Sayana Commentary)
नरोवृष्टेर्नेतारः ऋष्वाः महान्तोमरुतोरुक्मैः रोचमानैराभरणविशेषैरारोचन्तइतिशेषः उपसर्गश्रुतेः संगतक्रियाध्याहारः तथायुधा- प्रहरणसाधनेनायुधेन आरोचन्ते एते मरुतः ऋष्टीः आयुधविशेषान् असृक्षत प्रक्षिपन्ति मेघभेदार्थं एनान्मरुतोविद्युतोपि जज्झतीरिव शब्दकारिण्यआपइव जज्झतीरापोभवन्तिशब्दकारिण्यइअतिनिरुक्तम् । अन्वहअनुगच्छन्त्येव दिवोद्योतमानस्य मरुद्गणस्य भानुर्दीप्तिः त्मना स्वयमेव अत निरगात् ॥ ६ ॥