पञ्चमं मण्डलम् - सूक्तम् 50

5 ऋचः

ऋषिः: स्वस्त्यात्रेयः देवता: विश्वेदेवाः छन्दः: अनुष्टुप्

सूक्तम् 5.50 - सम्पूर्णम्

1 / 5
ऋक्: 5.50.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
5.50.1 समानपद
विश्वो᳚ दे॒वस्य᳚ ने॒तुर्मर्तो᳚ वुरीत स॒ख्यम् ।
विश्वो᳚ रा॒य इ᳚षुध्यति द्यु॒म्नं वृ᳚णीत पु॒ष्यसे᳚ ॥
▶ पदपाठः (Word-by-word)
विश्वः᳚ । दे॒वस्य᳚ । ने॒तुः । मर्तः᳚ । वु॒री॒त॒ । स॒ख्यम् ।
विश्वः᳚ । रा॒ये । इ॒षु॒ध्य॒ति॒ । द्यु॒म्नम् । वृ॒णी॒त॒ । पु॒ष्यसे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वः सर्वोमर्तोनेतुः देवस्यसवितुरित्यर्थः तस्यसख्यं वुरीत वृणीत विशोजनो रायेधनस्य इषुध्यति पंचमलकारः ईशीत तस्यानुग्र- हात् सर्वोजनोद्युम्नंधनं वृणीत सवितारं पुष्यसे पुष्ट्यै पर्याप्तंधनम् ॥ १ ॥

5.50.2
ते ते᳚ देव नेत॒र्ये चे॒मा{4} अ᳚नु॒शसे᳚ ।
ते रा॒या ते ह्या॒३॒᳚पृचे॒ सचे᳚महि सच॒थ्यै᳚ः ॥
▶ पदपाठः (Word-by-word)
ते । ते॒ । दे॒व॒ । ने॒तः॒ । ये । च॒ । इ॒मान् । अ॒नु॒॑शसे᳚ ।
ते । रा॒या । ते । हि । आ॒॑पृचे᳚ । सचे᳚महि । स॒च॒थ्यैः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेनेतर्देव ते तव स्वभूतास्तेवयंयजमानाः येचान्ये इमान् विभक्तिव्यत्ययः इमे होत्रादयः अनुशसे शंसितुंप्रभवन्ति तेपित्वदीयाः यद्वा इमानन्यानिन्द्रादीननुशसे क्रमेणशंसितुंप्रभवन्ति एकैववामहानात्मादेवताससूर्यः सहिसर्वभूतात्मेत्युक्तत्वादितरासांदेवतानां तदन्त- र्भावादितिभावः नकेवलं त्वच्छंसकाएवेत्यार्थः ते उभे वयं रायाधनेन सचेमहीतिसंबन्धः तेहि तेखलु आपृचे आपर्चनीयाः कृत्यार्थे- केन्प्रत्ययः कृन्मेजन्तइत्यव्ययत्वाद्विभक्तेरदर्शनं सचथ्यैः सर्वैः कामैः सचेमहि संगच्छेमहि ॥ २ ॥

5.50.3
अतो᳚ न॒ आ नॄनति᳚थी॒नत॒ः पत्नी᳚र्दशस्यत ।
आ॒रे विश्वं᳚ पथे॒ष्ठां द्वि॒षो यु᳚योतु॒ यूयु᳚विः ॥
▶ पदपाठः (Word-by-word)
अतः᳚ । नः॒ । आ । नॄन् । अति᳚थीन् । अतः᳚ । पत्नीः᳚ । द॒श॒स्य॒त॒ ।
आ॒रे । विश्व᳚म् । प॒थे॒॑स्थाम् । द्वि॒षः । यु॒यो॒तु॒ । युयु᳚विः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अतः अस्मिन्यज्ञेसार्वविभक्तिकस्तसिः नोस्माकमृत्विजां नॄन् नेतॄन् अतिथीन् तद्वत्पूज्यान् देवान् आदशस्यत सर्वतःपरिचरत अतोस्मिन्यज्ञे पत्नीर्देवानांपत्नीरपि आदशस्यतहविः प्रदानादिना यद्वा नोस्मभ्यं नॄन् पुत्रभृत्यादीन् अतिथीन् पत्नीश्च एतन्त्रयमत्रदशस्यत हेदेवाः प्रयच्छत आरे दूरे विश्वं सर्वं प्रथेष्ठां मार्गेवर्तमानं नैरिणं द्विषः अन्यानपि द्विषोद्वेष्टृन् युयोतु पृथक्करोतुदेवसंघःसवितावा युयुविः सर्वस्यामिश्रयिता पृथक्कर्ता ॥ ३ ॥

5.50.4
यत्र॒ वह्नि᳚र॒भिहि᳚तो दु॒द्रव॒द्द्रोण्य᳚ः प॒शुः ।
नृ॒मणा᳚ वी॒रप॒स्त्यो॑र्णा॒ धीरे᳚व॒ सनि᳚ता ॥
▶ पदपाठः (Word-by-word)
यत्र᳚ । वह्निः᳚ । अ॒भि॑हि᳚तः । दु॒द्रव᳚त् । द्रोण्यः᳚ । प॒शुः ।
नृ॒॑मनाः᳚ । वी॒र॑प᳚स्त्यः । अर्णा᳚ । धीरा᳚॑इव । सनि᳚ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

यत्र यस्मिन् यज्ञे वह्निर्यज्ञस्यवोढा अभिहितोयूयंप्रापितोद्रोण्योयूपार्हःपशुः दुद्रवत् गच्छतियूपंप्रति तत्र नृमणाः यजमानमनाः सविता वीरपस्त्यः वीराऋत्विग्यजमानाः पुत्रभृत्यादयोवा तद्वत् पस्त्यंगृहंयस्यसतादृशः प्रेरितगृहोवा पुत्राद्युपेतगृहप्रदइत्यर्थः सनिता संभक्ताभवति अर्णा अरणकुशलाधीरेव योषिदिव यद्वार्णानि हवींषि अभीलक्ष्यसनिताभवति ॥ ४ ॥

5.50.5
ए॒ष ते᳚ देव नेता॒ रथ॒स्पति॒ः शं र॒यिः ।
शं रा॒ये शं स्व॒स्तय᳚ इष॒ःस्तुतो᳚ मनामहे देव॒स्तुतो᳚ मनामहे ॥
▶ पदपाठः (Word-by-word)
ए॒षः । ते॒ । दे॒व॒ । ने॒त॒रिति᳚ । रथः॒पतिः᳚ । शम् । र॒यिः ।
शम् । रा॒ये । शम् । स्व॒स्तये᳚ । इ॒षः॒॑स्तुतः᳚ । म॒ना॒म॒हे॒ । दे॒व॒॑स्तुतः᳚ । म॒ना॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेनेतर्देव सवितः ते तव एषरथः पतिः सर्वस्यपालकः रयिः दातव्यधनवान् मत्वर्थोलुप्यते शंकरोत्वितिशेषः वयंच रायेधनस्य शं सुखाय यद्वा रायेधनाय शंसुखायच स्वस्तये अविनाशाय इषस्तुतः एषणीयस्यसवितुः स्तोतारोवयं मनामहे स्तुमः देवस्तुतः देवानां देवस्यवा सवितुःस्तोतारोमनामहे स्तुमः ॥ ५ ॥

अग्नेसुतस्येतिपंचदशर्चंसप्तमंसूक्तं अत्रेयमनुक्रमणिका-अग्नेपंचोनाचतस्रोगायत्र्यः षळुष्णिहस्तिस्रोजगत्यस्त्रिष्टुभोवान्त्येअनुष्टुभा- विति । ऋषिश्चान्यस्मादितिपरिभाषयास्वस्त्यात्रेयऋषिः आदितश्चतस्रोगायत्र्यः पंचम्याद्याःषळुष्णिहः एकादश्याद्यास्तिस्रोजगत्य- स्त्रिष्टुभोवा चतुर्दशीपंचदश्यावनुष्टुभौविश्वेदेवादेवता ।