पञ्चमं मण्डलम् - सूक्तम् 43

17 ऋचः

ऋषिः: भौमोत्रिः देवता: विश्वेदेवाः छन्दः: त्रिष्टुप्

सूक्तम् 5.43 - सम्पूर्णम्

1 / 17
ऋक्: 5.43.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (17)
5.43.1
आ धे॒नव॒ः पय᳚सा॒ तूर्ण्य᳚र्था॒ अम᳚र्धन्ती॒रुप᳚ नो यन्तु॒ मध्वा᳚ ।
म॒हो रा॒ये बृ᳚ह॒तीः स॒प्त विप्रो᳚ मयो॒भुवो᳚ जरि॒ता जो᳚हवीति ॥
▶ पदपाठः (Word-by-word)
आ । धे॒नवः᳚ । पय᳚सा । तूर्णि᳚॑अर्थाः । अम᳚र्धन्तीः । उप᳚ । नः॒ । य॒न्तु॒ । मध्वा᳚ ।
म॒हः । रा॒ये । बृ॒ह॒तीः । स॒प्त । विप्रः᳚ । म॒यः॒॑भुवः᳚ । ज॒रि॒ता । जो॒ह॒वी॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

धनेवः प्रीणयित्र्योनद्योमध्वा मधुरेण पयसारसेनसहिताः तूर्ण्यर्थाः त्वरमाणगमनाः अर्थोर्तेरितियास्कः । अमर्धन्तीरहिंसंत्यः सत्योनोस्मानुपायंतुउपागच्छन्तु तदर्थं महोमहते राये धनाय बृहतीर्महतीः सप्त सर्पणस्वभावाः सप्तसंख्यान्वा इमंमेगंगइतिमंत्रोक्ताः द्यावा तत्रहिप्राधान्येनसप्तैवोक्ताः मयोभुवः सुखस्यभावयित्र्योविप्रो विशेषेणप्रीणयिता जरिता स्तोता जोहवीति आजुह्वयति ॥ १ ॥

5.43.2 समानपद
आ सु᳚ष्टु॒ती नम᳚सा वर्त॒यध्यै॒ द्यावा॒ वाजा᳚य पृथि॒वी अमृ᳚ध्रे ।
पि॒ता मा॒ता मधु᳚वचाः सु॒हस्ता॒ भरे᳚भरे नो य॒शसा᳚वविष्टाम् ॥
▶ पदपाठः (Word-by-word)
आ । सु॒॑स्तु॒ती । नम᳚सा । व॒र्त॒यध्यै᳚ । द्यावा᳚ । वाजा᳚य । पृ॒थि॒वी इति᳚ । अमृ᳚ध्रे॒ इति᳚ ।
पि॒ता । मा॒ता । मधु᳚॑वचाः । सु॒॑हस्ता᳚ । भरे᳚॑भरे । नः॒ । य॒शसौ᳚ । अ॒वि॒ष्टा॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहं सुष्टुती सुष्टुत्या शोभनस्तोत्रेण नमसाहविषाच अमृध्रे हिंसारहिते द्यावापृथिवी द्यावापृथिव्यावावर्तयध्यै आवर्तयितुमिच्छामि वाजायान्नार्थं अन्नंवैवाजइतिहिश्रुतिः । पिता पालयित्रीद्यौर्माता निर्मात्रीपृथिवी मधुवचाः प्रियवचनाः सुहस्ता अभिमतदानेनशोभनह्रस्ता एते उभयविशेषणे यशसौ यशोयुक्तौ द्यावापृथिव्यौ भरेभरे सर्वेषुसंग्रामेषुयज्ञेषुवा नोस्मानविष्टांरक्षताम् ॥ २ ॥

5.43.3
अध्व᳚र्यवश्चकृ॒वांसो॒ मधू᳚नि॒ प्र वा॒यवे᳚ भरत॒ चारु᳚ शु॒क्रम् ।
होते᳚व नः प्रथ॒मः पा᳚ह्य॒स्य देव॒ मध्वो᳚ ररि॒मा ते॒ मदा᳚य ॥
▶ पदपाठः (Word-by-word)
अध्व᳚र्यवः । च॒कृ॒॑वांसः᳚ । मधू᳚नि । प्र । वा॒यवे᳚ । भ॒र॒त॒ । चारु᳚ । शु॒क्रम् ।
होता᳚॑इव । नः॒ । प्र॒थ॒मः । पा॒हि॒ । अ॒स्य । देव᳚ । मध्वः᳚ । र॒रि॒म । ते॒ । मदा᳚य ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अध्वर्यवः ध्वरंयुंजानाः मधूनि महुरसानिसोमाज्यादीनि चकृवांसः कुर्वाणायूयं वायवे प्रथमंप्रभरत प्रकर्षेणसंपादयन्त चारु चरणीयं शुक्रं दीप्तंसोमं हेवायो त्वं चहोतेव होतायथाप्रथमंपिबतितद्वन्नोस्मदर्थं अस्य अमुंसोमंप्रथमःइतरदेवेभ्यःपूर्वंपाहिपिब हेदेववायो मध्वोमधुरंसोमरसं तेमदायररिमददाम वायोः पूर्वपानमसकृत्प्रपंचितं ॥ ३ ॥

5.43.4
दश॒ क्षिपो᳚ युञ्जते बा॒हू अद्रिं॒ सोम᳚स्य॒ या श᳚मि॒तारा᳚ सु॒हस्ता᳚ ।
मध्वो॒ रसं᳚ सु॒गभ᳚स्तिर्गिरि॒ष्ठां चनि᳚श्चदद्दुदुहे शु॒क्रमं॒शुः ॥
▶ पदपाठः (Word-by-word)
दश᳚ । क्षिपः᳚ । यु॒ञ्ज॒ते॒ । बा॒हू इति᳚ । अद्रि᳚म् । सोम᳚स्य । या । श॒मि॒तारा᳚ । सु॒॑हस्ता᳚ ।
मध्वः᳚ । रस᳚म् । सु॒॑गभ᳚स्तिः । गि॒रि॒॑स्थाम् । चनि᳚श्चदत् । दु॒दु॒हे॒ । शु॒क्रम् । अं॒शुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्राभिषवस्यप्रतिपाद्यमानत्वात् सोमोदेवता यद्वाऎन्द्री अद्रिमभिषवग्रावाणं दशक्षिपोदशसंख्याकाः क्षेप्त्योंगुलयोयुंजतेगृह्णन्ति यद्वा परस्परंयुक्ताभवन्ति बाहू अप्यध्वर्युसंबंधिनावद्रिंयुंजाते या यौ सुहस्ता शोभनहननौ सोमस्यशमिताराऽभिषोतारौ तौबाहू युंजाते मध्वोमधुरस्यसोमस्यरसं गिरिष्ठांगिरिस्थायिनं गिरिवदुन्नतप्रदेशस्थितंवा सुगभस्तिः शोभनांगुलिरध्वर्युः चनिश्चदत् आह्लादयन् चदिआह्लादनेइत्यस्मात् यङ्लुकिछान्दसंरूपं दुदुहे दोग्धि सचांशुः शुक्रं निर्मलंरसं दुदुहे दुग्धे यद्वैकंवाक्यं अंशुर्व्याप्तः सुगभस्तिः सुहस्तोध्वर्युर्मध्वोरसं दुदुहे दोग्धि ॥ ४ ॥

5.43.5
असा᳚वि ते जुजुषा॒णाय॒ सोम॒ः क्रत्वे॒ दक्षा᳚य बृह॒ते मदा᳚य ।
हरी॒ रथे᳚ सु॒धुरा॒ योगे᳚ अ॒र्वागिन्द्र᳚ प्रि॒या कृ᳚णुहि हू॒यमा᳚नः ॥
▶ पदपाठः (Word-by-word)
असा᳚वि । ते॒ । जु॒जु॒षा॒णाय᳚ । सोमः᳚ । क्रत्वे᳚ । दक्षा᳚य । बृ॒ह॒ते । मदा᳚य ।
हरी॒ इति᳚ । रथे᳚ । सु॒॑धुरा᳚ । योगे᳚ । अ॒र्वाक् । इन्द्र᳚ । प्रि॒या । कृ॒णु॒हि॒ । हू॒यमा᳚नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र तेतुभ्यं जुजुषाणाय सेवमानाय सोमःअसावि अभिषुतः किमर्थं क्रत्वे क्रतवे वृत्रवधादिकर्मणे दक्षाय बलाय बृहतेमदायच यस्मादेवंतस्मात् हेइन्द्र त्वं हूयमानःसन् सुधुरा शोभनायांधुरिनियुक्तौप्रिया प्रियौ हरीअश्वौ योगे योगार्हेयुक्तेवा रथेयोजयित्वा तंरथंअर्वागस्मदभिमुखंकृणुहिकुरु ॥ ५ ॥

5.43.6 समानपद
आ नो᳚ म॒हीम॒रम᳚तिं स॒जोषा॒ ग्नां दे॒वीं नम᳚सा रा॒तह᳚व्याम् ।
मधो॒र्मदा᳚य बृह॒तीमृ᳚त॒ज्ञामाग्ने᳚ वह प॒थिभि᳚र्देव॒यानै᳚ः ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । म॒हीम् । अ॒रम᳚तिम् । स॒॑जोषाः᳚ । ग्नाम् । दे॒वीम् । नम᳚सा । रा॒त॑ह᳚व्याम् ।
मधोः᳚ । मदा᳚य । बृ॒ह॒तीम् । ऋ॒त॒॑ज्ञाम् । आ । अ॒ग्ने॒ । व॒ह॒ । प॒थि॑भिः᳚ । दे॒व॒॑यानैः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्राग्निंसंबोध्य ग्नादेवतायाआवाह्यत्वात् अस्याग्निर्ग्रावादेवता हेअग्ने सजोषाः अस्माभिः शप्रीयमाणस्त्वं ग्नां देवीं सर्वैर्गन्तव्यांएतन्नामिकांदेवतां मेनाग्नाइतिस्त्रीणामितियास्कः । नोस्मदर्थं देवयानैर्देवैर्गंतव्यैः पर्थिभिर्मार्गैः अभिमुखंआवह कीदृशीं महीं महतीं अरमतिं आसमन्तात् रममाणां सर्वत्रगन्त्रींवा नमसा स्तोत्रेणसह रातहव्यां रातंदत्तंदानायसंकल्पितंह्रव्यंयस्याः तांदत्तहविष्कामित्यर्थः किमर्थं मधोर्मधुरस्यसोमस्यमदाय पुनः कीदृशीं बृहतीं प्रवृद्धां ऋतज्ञां यज्ञमभिजानतीं ॥ ६ ॥ प्रवर्ग्येमहावीरेअज्यमानेअंजन्तियमित्येषा सूत्रितंच-अंजन्तियंप्रथयन्तोनविप्राइत्यज्यमानइति ।

5.43.7
अ॒ञ्जन्ति॒ यं प्र॒थय᳚न्तो॒ न विप्रा᳚ व॒पाव᳚न्तं॒ नाग्निना॒ तप᳚न्तः ।
पि॒तुर्न पु॒त्र उ॒पसि॒ प्रेष्ठ॒ आ घ॒र्मो अ॒ग्निमृ॒तय᳚न्नसादि ॥
▶ पदपाठः (Word-by-word)
अ॒ञ्जन्ति᳚ । यम् । प्र॒थय᳚न्तः । न । विप्राः᳚ । व॒पा॑व᳚न्तम् । न । अ॒ग्निना᳚ । तप᳚न्तः ।
पि॒तुः । न । पु॒त्रः । उ॒पसि᳚ । प्रेष्ठः᳚ । आ । घ॒र्मः । अ॒ग्निम् । ऋ॒तय᳚न् । अ॒सा॒दि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यंघर्मं महावीरंप्रथयन्तोन नेतिसंप्रत्यर्थीयः अस्त्युपमार्थस्यसंप्रत्यर्थेप्रयोगः इदानीं प्रथयन्तोविप्रामेधाविनऋत्विजोध्वर्य्वादयः वपावन्तंन वपावन्तंप्रवृद्धपशुंयथाग्नौतपन्तितद्वदग्नि नातपन्तः अंजन्ति पितुर्नपुत्रउपसिप्रेष्ठः पितुरुपस्थेप्रियतमः पुत्रइव घर्मोमहावीरः यद्द्रइत्यतपत् तद्दर्मस्यघर्मत्वंइतिहिश्रुतिः । सऋतयन् यज्ञमिच्छन् अग्निमग्नावसादिआसादितः अत्रपितृपुत्रदृष्टन्तः स्फोटादिराहित्येनसुखदवासप्रख्यापनार्थः ॥ ७ ॥

5.43.8
अच्छा᳚ म॒ही बृ᳚ह॒ती शंत᳚मा॒ गीर्दू॒तो न ग᳚न्त्व॒श्विना᳚ हु॒वध्यै᳚ ।
म॒यो॒भुवा᳚ स॒रथा या᳚तम॒र्वाग्ग॒न्तं नि॒धिं धुर᳚मा॒णिर्न नाभि᳚म् ॥
▶ पदपाठः (Word-by-word)
अच्छ᳚ । म॒ही । बृ॒ह॒ती । शम्॑त᳚मा । गीः । दू॒तः । न । ग॒न्तु॒ । अ॒श्विना᳚ । हु॒वध्यै᳚ ।
म॒यः॒॑भुवा᳚ । स॒रथा᳚ । आ । या॒त॒म् । अ॒र्वाक् । ग॒न्तम् । नि॒॑धिम् । धुर᳚म् । आ॒णिः । न । नाभि᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अच्छाभिमुखं अश्विना अश्विनौ हुव्ध्यै आह्वातुं गीरस्मदीयास्तुतिः दूतोन दूतइव आह्वातेव गन्तु गच्छतु गीर्विशेष्यते मही पूज्या बृहती महती शंतमा सुखतमा हेअश्विनौ मयोभुवा सुखस्य भावयितारौ सरथा एकरथौसन्तौ गन्तं गच्छन्तं द्रवीभूतं निधिं निहितंसोमं अर्वागभिमुखं आयातं आगच्छतं धुरं भारवाहिकांनाभिं आणिर्न कीलइव यथानिष्कीलानाभीरथंननिर्वहतितद्वत् युवाभ्यांवियुक्तः सोमोयागंननिर्वहतीतिज्ञापयितुमेवंदृष्टान्तितं ॥ ८ ॥

5.43.9 समानपद
प्र तव्य᳚सो॒ नम᳚उक्तिं तु॒रस्या॒हं पू॒ष्ण उ॒त वा॒योर᳚दिक्षि ।
या राध᳚सा चोदि॒तारा᳚ मती॒नां या वाज᳚स्य द्रविणो॒दा उ॒त त्मन् ॥
▶ पदपाठः (Word-by-word)
प्र । तव्य᳚सः । नमः᳚॑उक्तिम् । तु॒रस्य᳚ । अ॒हम् । पू॒ष्णः । उ॒त । वा॒योः । अ॒दि॒क्षि॒ ।
या । राध᳚सा । चो॒दि॒तारा᳚ । म॒ती॒नाम् । या । वाज᳚स्य । द्र॒वि॒णः॒॑दौ । उ॒त । त्मन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहमृषिः स्तव्यसः प्रकृष्टबलस्य तुरस्य त्वरमाणस्य पूष्णः पोषकस्य देवस्य उक्तगुणकायदेवाय उतापिच वायोरुक्तगुणायच नमउक्तिं नमइतिवचनंस्तोत्रं प्रादिक्षिप्रदिशामि या योपूषवायू राधसा हविर्लक्षणेननिमित्तेन मतीनांचोदिताराप्रेरयितारौ यद्वा राधसेतिषष्ठ्यर्थेतृतीया राधसोधनस्यमतीनांच चोदयितारौ यौच वाजस्यान्नस्यसंग्रामस्यवा चोदयितारौ तौदेवौ उतअपिच त्मन् आत्मनि अनन्यप्रेरणायैव द्रविणोदौभवतमितिशेषः ॥ ९ ॥

5.43.10
आ नाम᳚भिर्म॒रुतो᳚ वक्षि॒ विश्वा॒ना रू॒पेभि᳚र्जातवेदो हुवा॒नः ।
य॒ज्ञं गिरो᳚ जरि॒तुः सु᳚ष्टु॒तिं च॒ विश्वे᳚ गन्त मरुतो॒ विश्व᳚ ऊ॒ती ॥
▶ पदपाठः (Word-by-word)
आ । नाम᳚॑भिः । म॒रुतः᳚ । व॒क्षि॒ । विश्वा᳚न् । आ । रू॒पेभिः᳚ । जा॒त॒॑वे॒दः॒ । हु॒वा॒नः ।
य॒ज्ञम् । गिरः᳚ । ज॒रि॒तुः । सु॒॑स्तु॒तिम् । च॒ । विश्वे᳚ । ग॒न्त॒ । म॒रु॒तः॒ । विश्वे᳚ । ऊ॒ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेजातवेदः जातप्रज्ञाग्ने हुवानोस्माभिराहूयमानःसन् विश्वान् मरुतः सर्वानपिस्तोत्रभाजोहविर्भाजश्चदेवान् नामभिरिन्द्रवरुणेत्यादिलक्षणैरावक्षिआवहसि रूपेभिः सहस्राक्षवज्रहस्तत्वादिलक्षणैरूपैः आवक्षि वहसियज्ञम् किंच हेमरुतो विश्वेसर्वेयूयंयज्ञमस्मदीयंयज्ञसंबंधिहविर्वा जरितुः स्तोतुःसंबन्धिनीर्गिरः स्तुतिवचांसि सुष्टुतिं तत्साध्यांशोभनफलांस्तुतिंच अवयविन्यास्तुतेरेकत्वादेकवचनं अवयवानां बहुत्वाद्बहुवचनं उक्ते यज्ञस्तुती अभिलक्ष्य गन्त आगच्छत विश्वेच यूयमूती ऊत्यारक्षयाच सहगन्त ॥ १० ॥ आनोदिवइत्येकादशी व्यूढेदशरात्रेनवमेहनिप्रउगशस्त्रेसारस्वततृचेद्वितीया सूत्रितंच-आनोदिवोबृहतः पर्वतादासरस्वत्यभिनोने -षिवस्यइतितत्पाठस्तु ।

5.43.11
आ नो᳚ दि॒वो बृ᳚ह॒तः पर्व᳚ता॒दा सर᳚स्वती यज॒ता ग᳚न्तु य॒ज्ञम् ।
हवं᳚ दे॒वी जु᳚जुषा॒णा घृ॒ताची᳚ श॒ग्मां नो॒ वाच᳚मुश॒ती शृ᳚णोतु ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । दि॒वः । बृ॒ह॒तः । पर्व᳚तात् । आ । सर᳚स्वती । य॒ज॒ता । ग॒न्तु॒ । य॒ज्ञम् ।
हव᳚म् । दे॒वी । जु॒जु॒षा॒णा । घृ॒ताची᳚ । श॒ग्माम् । नः॒ । वाच᳚म् । उ॒श॒ती । शृ॒णो॒तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नोस्माकंयज्ञं यजता यष्टव्या देवी सरस्वती दिवोद्योतमानात् द्युलोकादागन्तु आगच्छतु तथा बृहतोमहतः पर्वतात् पर्ववतः पूरणवतः प्रीणनवतोवान्तरिक्षान्मेघाद्वा सरस्वती आगन्तुआगच्छतु अनेनमाध्यमिकीवागुच्यते यद्वैतद्दिवइत्यस्यविशेषणं सन्तिहिद्युलोकस्य त्रीणिपर्वाणितिस्रोदिवः पृथिवीरित्यादिश्रुतेः । अस्मिन् पक्षेद्वितीयआकारः पूरणः तदर्थं हवमस्मदीयमाह्वानं देवी सरस्वती जुजुषाणा स्तुतिंसेवमाना घृताची घृतमुदकमंचती नोस्मदीयांशग्मां सुखकरीं वाचं स्तुतिमुशतीकामयमानासतीशृणोतु ॥ ११ ॥

5.43.12 समानपद
आ वे॒धसं॒ नील᳚पृष्ठं बृ॒हन्तं॒ बृह॒स्पतिं॒ सद᳚ने सादयध्वम् ।
सा॒दद्यो᳚निं॒ दम॒ आ दी᳚दि॒वांसं॒ हिर᳚ण्यवर्णमरु॒षं स᳚पेम ॥
▶ पदपाठः (Word-by-word)
आ । वे॒धस᳚म् । नील᳚॑पृष्ठम् । बृ॒हन्त᳚म् । बृह॒स्पति᳚म् । सद᳚ने । सा॒द॒य॒ध्व॒म् ।
सा॒दत्॑यो᳚निम् । दमे᳚ । आ । दी॒दि॒॑वांस᳚म् । हिर᳚ण्य॑वर्णम् । अ॒रु॒षम् । स॒पे॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषाबार्हस्पत्या हेऋत्विजोयूयं बृहस्पतिं बृहतोमंत्रस्य्स्वामिनं देवं सदनेस्मद्यागगृहे आसादयध्वं स्थापयध्वं कीदृशंदेवं वेधसं विविधकर्तारं नीलपृष्ठं स्निग्धांगं बृहन्तं महान्तं तथासन्तंवयमृत्विग्यजमानाः सपेम परिचरेम सएवविशेष्यते सादद्योनिं योनौसीदन्तं दमे यागगृहे आसर्वतोदीदिवांसंदीप्यमानं हिरण्यवर्णं हितरमणीयवर्णं अरुषमारोचमानं अथवेयमाग्नेयी बृहतः परिवृढस्यकर्मणः स्वामीतिबृहस्पतिरग्निरुच्यते तथानीलवर्णधूमपृष्ठत्वसदनसादनहिरण्यवर्णत्वादिलिंगैरप्यग्निरेवबृहस्पतिः ॥ १२ ॥

5.43.13
आ ध᳚र्ण॒सिर्बृ॒हद्दि᳚वो॒ ररा᳚णो॒ विश्वे᳚भिर्ग॒न्त्वोम᳚भिर्हुवा॒नः ।
ग्ना वसा᳚न॒ ओष᳚धी॒रमृ᳚ध्रस्त्रि॒धातु᳚शृङ्गो वृष॒भो व᳚यो॒धाः ॥
▶ पदपाठः (Word-by-word)
आ । ध॒र्ण॒सिः । बृ॒हत्॑दि᳚वः । ररा᳚णः । विश्वे᳚भिः । ग॒न्तु॒ । ओम᳚॑भिः । हु॒वा॒नः ।
ग्नाः । वसा᳚नः । ओष᳚धीः । अमृ᳚ध्रः । त्रि॒धातु᳚॑शृङ्गः । वृ॒ष॒भः । व॒यः॒॑धाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदमाद्यृक्रयंआग्नेयं अग्निरागन्तु आग्च्छतुअस्मद्यज्ञं धर्णसिः सर्वस्यधारकः बृहद्दिवः प्रभूतदीप्तिः रराणोरममाणः कामान्प्रयच्छ्न्वा आविश्वेभिः सर्वैः ओमभिः रक्षणैः सह हुवानः आहूयमानः ग्नाः गंत्रीर्ज्वालाः ओषधीश्च वसानः अमृध्रोअहिंसितः त्रिधातुशृंगः त्रिप्रकारशृंगवदुन्नतः लोहितशुक्लकृष्णवर्णज्वालः वृषभोवर्षिता वयोधाः अन्नस्यदाताहविषोवाधारकः ॥ १३ ॥

5.43.14
मा॒तुष्प॒दे प᳚र॒मे शु॒क्र आ॒योर्वि᳚प॒न्यवो᳚ रास्पि॒रासो᳚ अग्मन् ।
सु॒शेव्यं॒ नम᳚सा रा॒तह᳚व्या॒ः शिशुं᳚ मृजन्त्या॒यवो॒ न वा॒से ॥
▶ पदपाठः (Word-by-word)
मा॒तुः । प॒दे । प॒र॒मे । शु॒क्रे । आ॒योः । वि॒प॒न्यवः᳚ । रा॒स्पि॒रासः᳚ । अ॒ग्म॒न् ।
सु॒॑शेव्य᳚म् । नम᳚सा । रा॒त॑ह᳚व्याः । शिशु᳚म् । मृ॒ज॒न्ति॒ । आ॒यवः᳚ । न । वा॒से ॥
▶ सायणभाष्यम् (Sayana Commentary)

आयोर्मनुष्यस्ययजमानस्य विपन्यवः स्तोतृनामैतत् स्तोतारोहोत्रादयोरास्पिरासः राधनंहविर्लक्षणं तत्स्पृशन्तिरास्पाजुह्वादयः तद्वान् रास्पी तद्वन्तोरास्पिराः उक्तविधाऋत्विजोमातुर्निर्मातुः पृथिव्याः शुक्रे दीप्ते परमे पदेउत्तरवेद्यांस्थितमग्मन् अगमन् व्रजन्ते तदर्थं सुशेव्यं सुखायहितं शिशुं उत्पन्नमात्रं वासे वासाय नमसा स्तोत्रेण रातहव्याः दत्तह्वयाः हविष्काइत्यर्थः तादृशास्तेमृजन्तिसंमार्जयन्ति तत्रदृष्टान्तः-आयवोन लैकिकामनुष्याइव तेयथाशिशुंवासायमृजन्तितद्वत् ॥ १४ ॥

5.43.15
बृ॒हद्वयो᳚ बृह॒ते तुभ्य᳚मग्ने धिया॒जुरो᳚ मिथु॒नासः᳚ सचन्त ।
दे॒वोदे᳚वः सु॒हवो᳚ भूतु॒ मह्यं॒ मा नो᳚ मा॒ता पृ᳚थि॒वी दु᳚र्म॒तौ धा᳚त् ॥
▶ पदपाठः (Word-by-word)
बृ॒हत् । वयः᳚ । बृ॒ह॒ते । तुभ्य᳚म् । अ॒ग्ने॒ । धि॒या॒॑जुरः᳚ । मि॒थु॒नासः᳚ । स॒च॒न्त॒ ।
दे॒वः॑दे᳚वः । सु॒॑हवः᳚ । भू॒तु॒ । मह्य᳚म् । मा । नः॒ । मा॒ता । पृ॒थि॒वी । दुः॒॑म॒तौ । धा॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

बृहत् प्रभूतं वयोन्नं हेअग्ने बृहते तुभ्यं धियाजुरः कर्मणाजीर्णाः मिथुनासोदंपतीभिः सहिताः सचन्त सेवन्ते जायापतीअग्निमादधीयातामित्यादिश्रुतेः । अधिकाराध्यायेषष्ठेस्त्रियाअग्न्यधिकारः सच पत्यासहेतिहिप्रतिपादितं अवशिष्टंगतम् ॥ १५ ॥

5.43.17
सम॒श्विनो॒रव᳚सा॒ नूत᳚नेन मयो॒भुवा᳚ सु॒प्रणी᳚ती गमेम ।
आ नो᳚ र॒यिं व᳚हत॒मोत वी॒राना विश्वा᳚न्यमृता॒ सौभ᳚गानि ॥
▶ पदपाठः (Word-by-word)
सम् । अ॒श्विनोः᳚ । अव᳚सा । नूत᳚नेन । म॒यः॒॑भुवा᳚ । सु॒॑प्रनी᳚ती । ग॒मे॒म॒ ।
आ । नः॒ । र॒यिम् । व॒ह॒त॒म् । आ । उ॒त । वी॒रान् । आ । विश्वा᳚नि । अ॒मृ॒ता॒ । सौभ᳚गानि ॥
▶ सायणभाष्यम् (Sayana Commentary)

व्याख्यातेद्वे ॥ १७ ॥

तंप्रत्नथेतिपंचदशर्चंद्वादशंसूक्तं अवत्सारोनामऋषिः सचकश्यपगोत्रः यास्वृक्षुसदापृणबाहुवृक्तादयः श्रुताः तासुतेपिसमुच्चीयन्ते चतुर्दशीपंचदश्यौत्रिष्टुभौ शिष्टास्त्रिष्टुबन्तपरिभाषया जगत्यः विश्वेदेवादेवताः अनुक्रान्तंच-तंप्रत्नथापंचोनाकाश्यपोवत्सारोन्ये -चऋषयोत्रदृष्टलिंगाद्वित्रिष्टुबन्तमिति । वाजपेयेअतिरिक्तोक्थ्ये आदितस्त्रयोदशर्चः शंसनीयाः सूत्रितंच-तंप्रत्नथेतित्रयोदशानामेकां -शिष्ट्वाहूयदूरोहणरोहेदिति ।