आ नो᳚ दि॒वो बृ᳚ह॒तः पर्व᳚ता॒दा सर᳚स्वती यज॒ता ग᳚न्तु य॒ज्ञम् ।
हवं᳚ दे॒वी जु᳚जुषा॒णा घृ॒ताची᳚ श॒ग्मां नो॒ वाच᳚मुश॒ती शृ᳚णोतु ॥
हवं᳚ दे॒वी जु᳚जुषा॒णा घृ॒ताची᳚ श॒ग्मां नो॒ वाच᳚मुश॒ती शृ᳚णोतु ॥
पदपाठः (Word-by-word)
आ । नः॒ । दि॒वः । बृ॒ह॒तः । पर्व᳚तात् । आ । सर᳚स्वती । य॒ज॒ता । ग॒न्तु॒ । य॒ज्ञम् ।
हव᳚म् । दे॒वी । जु॒जु॒षा॒णा । घृ॒ताची᳚ । श॒ग्माम् । नः॒ । वाच᳚म् । उ॒श॒ती । शृ॒णो॒तु॒ ॥
हव᳚म् । दे॒वी । जु॒जु॒षा॒णा । घृ॒ताची᳚ । श॒ग्माम् । नः॒ । वाच᳚म् । उ॒श॒ती । शृ॒णो॒तु॒ ॥
सायणभाष्यम् (Sayana Commentary)
नोस्माकंयज्ञं यजता यष्टव्या देवी सरस्वती दिवोद्योतमानात् द्युलोकादागन्तु आगच्छतु तथा बृहतोमहतः पर्वतात् पर्ववतः पूरणवतः प्रीणनवतोवान्तरिक्षान्मेघाद्वा सरस्वती आगन्तुआगच्छतु अनेनमाध्यमिकीवागुच्यते यद्वैतद्दिवइत्यस्यविशेषणं सन्तिहिद्युलोकस्य त्रीणिपर्वाणितिस्रोदिवः पृथिवीरित्यादिश्रुतेः । अस्मिन् पक्षेद्वितीयआकारः पूरणः तदर्थं हवमस्मदीयमाह्वानं देवी सरस्वती जुजुषाणा स्तुतिंसेवमाना घृताची घृतमुदकमंचती नोस्मदीयांशग्मां सुखकरीं वाचं स्तुतिमुशतीकामयमानासतीशृणोतु ॥ ११ ॥