श्रवणम्

5.43.9 समानपद
प्र तव्य᳚सो॒ नम᳚उक्तिं तु॒रस्या॒हं पू॒ष्ण उ॒त वा॒योर᳚दिक्षि ।
या राध᳚सा चोदि॒तारा᳚ मती॒नां या वाज᳚स्य द्रविणो॒दा उ॒त त्मन् ॥
▶ पदपाठः (Word-by-word)
प्र । तव्य᳚सः । नमः᳚॑उक्तिम् । तु॒रस्य᳚ । अ॒हम् । पू॒ष्णः । उ॒त । वा॒योः । अ॒दि॒क्षि॒ ।
या । राध᳚सा । चो॒दि॒तारा᳚ । म॒ती॒नाम् । या । वाज᳚स्य । द्र॒वि॒णः॒॑दौ । उ॒त । त्मन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहमृषिः स्तव्यसः प्रकृष्टबलस्य तुरस्य त्वरमाणस्य पूष्णः पोषकस्य देवस्य उक्तगुणकायदेवाय उतापिच वायोरुक्तगुणायच नमउक्तिं नमइतिवचनंस्तोत्रं प्रादिक्षिप्रदिशामि या योपूषवायू राधसा हविर्लक्षणेननिमित्तेन मतीनांचोदिताराप्रेरयितारौ यद्वा राधसेतिषष्ठ्यर्थेतृतीया राधसोधनस्यमतीनांच चोदयितारौ यौच वाजस्यान्नस्यसंग्रामस्यवा चोदयितारौ तौदेवौ उतअपिच त्मन् आत्मनि अनन्यप्रेरणायैव द्रविणोदौभवतमितिशेषः ॥ ९ ॥