श्रवणम्

5.43.4
दश॒ क्षिपो᳚ युञ्जते बा॒हू अद्रिं॒ सोम᳚स्य॒ या श᳚मि॒तारा᳚ सु॒हस्ता᳚ ।
मध्वो॒ रसं᳚ सु॒गभ᳚स्तिर्गिरि॒ष्ठां चनि᳚श्चदद्दुदुहे शु॒क्रमं॒शुः ॥
▶ पदपाठः (Word-by-word)
दश᳚ । क्षिपः᳚ । यु॒ञ्ज॒ते॒ । बा॒हू इति᳚ । अद्रि᳚म् । सोम᳚स्य । या । श॒मि॒तारा᳚ । सु॒॑हस्ता᳚ ।
मध्वः᳚ । रस᳚म् । सु॒॑गभ᳚स्तिः । गि॒रि॒॑स्थाम् । चनि᳚श्चदत् । दु॒दु॒हे॒ । शु॒क्रम् । अं॒शुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्राभिषवस्यप्रतिपाद्यमानत्वात् सोमोदेवता यद्वाऎन्द्री अद्रिमभिषवग्रावाणं दशक्षिपोदशसंख्याकाः क्षेप्त्योंगुलयोयुंजतेगृह्णन्ति यद्वा परस्परंयुक्ताभवन्ति बाहू अप्यध्वर्युसंबंधिनावद्रिंयुंजाते या यौ सुहस्ता शोभनहननौ सोमस्यशमिताराऽभिषोतारौ तौबाहू युंजाते मध्वोमधुरस्यसोमस्यरसं गिरिष्ठांगिरिस्थायिनं गिरिवदुन्नतप्रदेशस्थितंवा सुगभस्तिः शोभनांगुलिरध्वर्युः चनिश्चदत् आह्लादयन् चदिआह्लादनेइत्यस्मात् यङ्लुकिछान्दसंरूपं दुदुहे दोग्धि सचांशुः शुक्रं निर्मलंरसं दुदुहे दुग्धे यद्वैकंवाक्यं अंशुर्व्याप्तः सुगभस्तिः सुहस्तोध्वर्युर्मध्वोरसं दुदुहे दोग्धि ॥ ४ ॥