श्रवणम्

5.43.7
अ॒ञ्जन्ति॒ यं प्र॒थय᳚न्तो॒ न विप्रा᳚ व॒पाव᳚न्तं॒ नाग्निना॒ तप᳚न्तः ।
पि॒तुर्न पु॒त्र उ॒पसि॒ प्रेष्ठ॒ आ घ॒र्मो अ॒ग्निमृ॒तय᳚न्नसादि ॥
▶ पदपाठः (Word-by-word)
अ॒ञ्जन्ति᳚ । यम् । प्र॒थय᳚न्तः । न । विप्राः᳚ । व॒पा॑व᳚न्तम् । न । अ॒ग्निना᳚ । तप᳚न्तः ।
पि॒तुः । न । पु॒त्रः । उ॒पसि᳚ । प्रेष्ठः᳚ । आ । घ॒र्मः । अ॒ग्निम् । ऋ॒तय᳚न् । अ॒सा॒दि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यंघर्मं महावीरंप्रथयन्तोन नेतिसंप्रत्यर्थीयः अस्त्युपमार्थस्यसंप्रत्यर्थेप्रयोगः इदानीं प्रथयन्तोविप्रामेधाविनऋत्विजोध्वर्य्वादयः वपावन्तंन वपावन्तंप्रवृद्धपशुंयथाग्नौतपन्तितद्वदग्नि नातपन्तः अंजन्ति पितुर्नपुत्रउपसिप्रेष्ठः पितुरुपस्थेप्रियतमः पुत्रइव घर्मोमहावीरः यद्द्रइत्यतपत् तद्दर्मस्यघर्मत्वंइतिहिश्रुतिः । सऋतयन् यज्ञमिच्छन् अग्निमग्नावसादिआसादितः अत्रपितृपुत्रदृष्टन्तः स्फोटादिराहित्येनसुखदवासप्रख्यापनार्थः ॥ ७ ॥