श्रवणम्

5.43.1
आ धे॒नव॒ः पय᳚सा॒ तूर्ण्य᳚र्था॒ अम᳚र्धन्ती॒रुप᳚ नो यन्तु॒ मध्वा᳚ ।
म॒हो रा॒ये बृ᳚ह॒तीः स॒प्त विप्रो᳚ मयो॒भुवो᳚ जरि॒ता जो᳚हवीति ॥
▶ पदपाठः (Word-by-word)
आ । धे॒नवः᳚ । पय᳚सा । तूर्णि᳚॑अर्थाः । अम᳚र्धन्तीः । उप᳚ । नः॒ । य॒न्तु॒ । मध्वा᳚ ।
म॒हः । रा॒ये । बृ॒ह॒तीः । स॒प्त । विप्रः᳚ । म॒यः॒॑भुवः᳚ । ज॒रि॒ता । जो॒ह॒वी॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

धनेवः प्रीणयित्र्योनद्योमध्वा मधुरेण पयसारसेनसहिताः तूर्ण्यर्थाः त्वरमाणगमनाः अर्थोर्तेरितियास्कः । अमर्धन्तीरहिंसंत्यः सत्योनोस्मानुपायंतुउपागच्छन्तु तदर्थं महोमहते राये धनाय बृहतीर्महतीः सप्त सर्पणस्वभावाः सप्तसंख्यान्वा इमंमेगंगइतिमंत्रोक्ताः द्यावा तत्रहिप्राधान्येनसप्तैवोक्ताः मयोभुवः सुखस्यभावयित्र्योविप्रो विशेषेणप्रीणयिता जरिता स्तोता जोहवीति आजुह्वयति ॥ १ ॥