पञ्चमं मण्डलम् - सूक्तम् 9

7 ऋचः

ऋषिः: गय आत्रेयः देवता: अग्निः छन्दः: अनुष्टुप्

सूक्तम् 5.9 - सम्पूर्णम्

1 / 7
ऋक्: 5.9.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
5.9.1
त्वाम᳚ग्ने ह॒विष्म᳚न्तो दे॒वं मर्ता᳚स ईळते ।
मन्ये᳚ त्वा जा॒तवे᳚दसं॒ स ह॒व्या व᳚क्ष्यानु॒षक् ॥
▶ पदपाठः (Word-by-word)
त्वाम् । अ॒ग्ने॒ । ह॒विष्म᳚न्तः । दे॒वम् । मर्ता᳚सः । ई॒ळ॒ते॒ ।
मन्ये᳚ । त्वा॒ । जा॒त॑वे᳚दसम् । सः । ह॒व्या । व॒क्षि॒ । आ॒नु॒षक् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्यनिःश्वसितंवेदायोवेदेभ्योखिलंजगत् ॥ निर्ममेतमहंवन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

पंचमेमंडलेप्रथमेनुवाकेपूर्वमष्टौसूक्तनिव्याख्यातानि त्वामग्नेहविष्मन्तइतिसप्तर्चंनवमं सूक्तम् आत्रेयस्यगयस्यार्षं सप्तमीपंचम्यौपंक्ती शिष्टः पंक्त्ययन्तस्यचसूक्तस्येतिपरिभाषयाअनुष्टुभः अग्निर्देवता तथाचानुक्रम्यते-त्वामग्नेगयोन्त्यापं मम्यपंक्तीइति । प्रातरनुवाकेआश्विनशस्त्रेचएतदादिकेद्वेसूक्तेशंसनीये तथैवसूत्रितम्-त्वामग्नेहविप्मन्तइतिसूक्तेइति ।

हेअग्ने त्वां देवं दीप्यमानं हविष्मन्तः होमसाधनद्रव्यसमेताः मर्तासोमर्त्याः ईळते स्तुवन्ति अहंच जातवेदसं जातमुत्पन्नंचरा -चरभूतजातंवेत्तीतिजातवेदाः अथवा जातानिस्थावरजंगमात्मकानि एनंविदुरितिजातवेदाः यद्वा वेदइतिधननाम जातंसर्वं -वेदोधनंयस्यासौजातवेदाः एवंदिधं त्वा त्वां मन्ये स्तौमि मनिरत्रस्तुत्यर्थेवर्तते धातूनामनेकार्थत्वात् सत्वं हव्या हवनसाधनानिहवींषि आनुषक् निरन्तरतयाअनुषक्तं यथा तथा वक्षि वहसि ॥ हविष्मन्तः हविःशब्दऔणादिकइस्प्रत्ययान्तः प्रत्ययस्वरेणान्तोदात्तः तदस्यास्तीतिमतुप् पदसंज्ञायाअपवादत्वेनतसौमत्वर्थेइतिभसंज्ञायांरुत्वाभावः मतुप् जसोरनुदात्तत्वात् प्रत्ययस्वरएवशिष्यते । देवं अच् प्रत्ययान्तत्वाद्देवशब्दोन्तोदात्तः । मर्तासः मृङ्प्राणत्यागे असिहसिमृङित्यादिनातन् गुणः मर्तः जसेरसुक् मर्तासः नित्त्वादाद्युदात्तः । ईळते ईडस्तुतौ अदादित्वाच्छपोलुक् आत्मनेपदेष्वनतः टेरेत्वम् अत्रढकारस्याध्येतृसंप्रदायप्राप्तोळकारः लसार्वधातु -कानुदात्तत्वेनधातुस्वरेप्राप्ते आष्टमिकोनिघातः । मन्ये श्यनोनित्त्वादाद्युदात्तत्वम् । त्वा युषिमिश्रणे मदिक् प्रत्ययान्तोयुष्मच्छव्दः प्रत्ययस्वरेणान्तोदात्तः त्वमावेकवचनेइतिमपर्यन्तस्यत्वादेशः द्वितीयांचेत्याकारः एकादेशउदात्तेनोदात्तइत्येकादेशोप्युदात्तएव त्वामौद्वितीयायाइतित्वादेशः स्थानिवद्भावेनान्तत्वे प्राप्ते अनुदात्तंसर्वमपादादावित्यनुदात्तत्वम् । जातवेदसम् जनीप्रादुर्भावे क्तः श्वीदितोनिष्ठायामितीट्प्रतिषेधः जनसनखनांसन् झलोरित्यात्वं प्रत्ययस्वरेणान्तोदात्तः वेदस् शब्दोप्यसुन् प्रत्ययान्तत्वादाद्युदात्तः कर्मधारयपक्षे समासान्तोदात्तापवादत्वेन तत्पुरुषेतुल्यार्थेत्यादिनापूर्वपदप्रकृतिस्वरत्वेप्राप्तेकृदुत्तरपदप्रकृतिस्वरत्वं तदपवादत्वेन- गतिकारकयोरपिपूर्वपदप्रकृतिस्वरत्वं चेतिपूर्वपदप्रकृतिस्वरत्वं बहुव्रीहिपक्षे बहुव्रीहौप्रकृत्यापूर्वपदमिति । हव्या हवमर्हतीत्यस्मिन्नर्थे- यइत्यनुवर्तमाने छंदसिचेतियः नपुंसकत्वाच्छिरादेशः शेश्छन्दसिबहुलमितिलोपःप्रत्ययलक्षणेननुम् दीर्घनलोपौ प्रत्ययस्वरेणान्तोदात्तः । वक्षि वहप्रापणे सिप् लुगनुवृत्तौ बहुलं छन्दसीतिशपोलुक् टत्वकत्वषत्वानि सिपःपित्त्वादनुदात्तत्वेन धातुस्वरेणाद्युदात्तत्वेप्राप्तेनिघातः । आनुषक् अनुपूर्वस्यषंजेःक्विप् नकारलोपः कुत्वंच धात्वादेःसकारस्यउपसर्गात्सुनोतीत्या दिनाषत्वं दीर्घश्छान्दसः दीर्घश्छान्दसः कृदुत्तरपदप्रकृतिस्वरत्वम् ॥ १ ॥

5.9.2
अ॒ग्निर्होता॒ दास्व᳚त॒ः क्षय᳚स्य वृ॒क्तब᳚र्हिषः ।
सं य॒ज्ञास॒श्चर᳚न्ति॒ यं सं वाजा᳚सः श्रव॒स्यवः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । होता᳚ । दास्व᳚तः । क्षय᳚स्य । वृ॒क्त॑ब᳚र्हिषः ।
सम् । य॒ज्ञासः᳚ । चर᳚न्ति । यम् । सम् । वाजा᳚सः । श्र॒व॒स्यवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यं अग्निं यज्ञासः सर्वेयज्ञाः संचरन्ति सहितागच्छन्ति श्रवस्यवः यजमानस्यप्रभूतांकीर्तिंसंपादयन्तोवाजासोहवींषियमग्निंसंचरन्ति प्राप्नुवन्ति एवंविशिष्टोग्निः दास्वतः हविःप्रक्षेपणादिदानवतः वृक्तबर्हिषः वृक्तानिलूनानिबर्हींषिदर्भायेनासौवृक्तबर्हिः तस्य क्षयस्य क्षियन्तिनिवसंत्यस्मिन् स्वर्गसाधनफलानीतिक्षयः तस्य यजमानस्य यागार्थंहोतादेवानामाह्वाताभवति ॥ दास्वतः दादाने असुन्प्रत्ययान्तः मतुपः अदुपधात्वाद्वत्वं धातुस्वरेणाद्युदात्तएव । क्षयस्य क्षिनिवासगत्योः क्षयोनिवासेइत्याद्युदात्तवम् । वृक्तबर्हिषः वृजीवर्जने वर्जनमत्रोपचाराच्छेदनं निष्ठाप्रत्ययस्वरेणान्तोदात्तः बहुव्रीहित्वात्पूर्वपदप्रकृतिस्वरत्वम् । यज्ञासः यज्ञशब्दः यजयाचेत्यादि -नानङ्प्रत्ययान्तोन्तोदात्तः । चरन्ति चरगतिभक्षणयोः अदुपदेशाल्लसार्वधातुकानुदात्तत्वं यद्वृत्तान्नित्य मितिनि घाता-भावः । जाजसाः वजोर्घञ् वाजः कर्षात्वतइत्यन्तोदात्तत्वं छान्दसत्वात् श्नित्यादिर्नित्यमित्याद्युदात्तः । श्रवस्यवः छन्दसिपरेच्छया- मितिक्यच् क्याच्छन्दसीत्युप्रत्ययः प्रत्ययस्वरेणान्तोदात्तः ॥ २ ॥

5.9.3
उ॒त स्म॒ यं शिशुं᳚ यथा॒ नवं॒ जनि᳚ष्टा॒रणी᳚ ।
ध॒र्तारं॒ मानु᳚षीणां वि॒शाम॒ग्निं स्व᳚ध्व॒रम् ॥
▶ पदपाठः (Word-by-word)
उ॒त । स्म॒ । यम् । शिशु᳚म् । य॒था॒ । नव᳚म् । जनि᳚ष्ट । अ॒रणी॒ इति᳚ ।
ध॒र्तार᳚म् । मानु᳚षीणाम् । वि॒शाम् । अ॒ग्निम् । सु॒॑अ॒ध्व॒रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतस्म अपिच मानुषीणां मनोर्जातानां विशां विशान्तिप्रविशन्तिगर्भाशयमितिविशः प्रजा: तासांधर्तारं आहारादिपाकद्वारेणशरी- रधातूनांपोषकं स्वध्वरं शोभनयज्ञं यमग्निं अरणी द्वेअरणी नवंनूतनंशिसुः यथा अपत्यमिवजनिष्टाजनिषाताम् अरणी प्रजानांपोषणा र्थंच एतमग्निं असृजतामित्यर्थः ॥ शिशुं शोतनूकरणे आदेचइत्यादिनाआत्वं शःकित्सन्वञ्चेत्युप्रत्ययः सन्वद्भावश्च द्विर्भावः अभ्यासस्य- ह्रस्वश्च सन्यतइतीत्वं आतोधातोरित्याकारलोपः धान्येनित् अस्मात्सूत्रान्निदित्यनुवर्तते नित्त्वादाद्युदात्तः । यथा यथेतिपादा- न्तेइतिसर्वानुदात्तः । जनिष्ट जनीप्रादुर्भावे लुङ् छान्दसत्वाद्वचनव्यत्ययः । अरणी ऋगतौ अर्तिसृभृधृधम्यश्यवितॄभ्योनिरितिअनिः- प्रत्ययः आद्युदात्तः आभ्यार्मीतगच्छत्यग्निरित्यरणी कथमपादानार्थेऔणादिकोनिःताभ्यामन्यत्रोणादयइतिनियमात् भीमादित्वात्सिद्धम् । मानुषीणां मनोर्जातावञ्यतौषुक् चेत्यञ् प्रत्ययः षुगागमश्च ञ्नित्या-दिर्नित्यमित्याद्युदात्तत्वम् । विशां विशप्रवेशने कर्तरिक्विप् सावेकाचइतिविभक्तेरुदात्तत्वम् । स्वध्वरं हिंसार्थस्यध्वरतेः पचाद्यच् नविद्यतेध्वरोयागहिंसायस्मिन्नित्यध्वरः बहुव्रीहिस्वरापवाद- त्वेननञ् सुभ्यामित्यन्तोदात्तः ॥ ३ ॥

5.9.4
उ॒त स्म᳚ दुर्गृभीयसे पु॒त्रो न ह्वा॒र्याणा᳚म् ।
पु॒रू यो दग्धासि॒ वनाग्ने᳚ प॒शुर्न यव᳚से ॥
▶ पदपाठः (Word-by-word)
उ॒त । स्म॒ । दुः॒॑गृ॒भी॒य॒से॒ । पु॒त्रः । न । ह्वा॒र्याणा᳚म् ।
पु॒रु । यः । दग्धा᳚ । असि᳚ । वना᳚ । अग्ने᳚ । प॒शुः । न । यव᳚से ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतस्म अपिच ह्वार्याणां कुटिलंगच्छतां सर्पाणां यद्वा आस्कन्दितादिगतिविशेषेणवऋगमनानां अश्वानां पुत्रोन पुत्रइव वालसर्पइवअशिक्षितवालाश्वइव वा दुर्गृभीयसदुःखेनगृह्यसे हेअग्ने यस्त्वं पुरु पुरूणि बहूनि वना वनानि दग्धासि दाहकोभवसि कथमिव यवसेतृणेपशुर्न पशुरिव अयमर्थः अत्यन्तक्षुधार्तःपशुः तृणविषयेविसृष्टःसन् यथासर्वंभक्षयति तद्वदित्यर्थः ॥ दुर्गृभीयसे ग्रहउपादाने यक् ब्रुवईडित्यनुवृत्तौ बहुलंछन्दसीतीडागमः ग्रह्यादिनासंप्रसारणं हग्रहोर्भश्छन्दसीतिभकारः निघातः । ह्वार्याणां ह्वृकौटिल्ये ऋहलोर्ण्यत् आदिवृद्धिः तित्स्वरितइतिस्वरितत्वम् । पुरु पॄपालनपूरणयोः पॄभिदिव्यधिधृषिदृशिभ्यइतिकुप्रत्ययः उदोष्ठ्यपूर्वस्येतिउत्वम् प्रत्ययस्वरेणान्तोदात्तः । असि यद्वृत्तान्नित्यमितिननिघातः ॥ ४ ॥

5.9.5
अध᳚ स्म॒ यस्या॒र्चयः᳚ स॒म्यक्सं॒यन्ति᳚ धू॒मिनः᳚ ।
यदी॒मह᳚ त्रि॒तो दि॒व्युप॒ ध्माते᳚व॒ धम᳚ति॒ शिशी᳚ते ध्मा॒तरी᳚ यथा ॥
▶ पदपाठः (Word-by-word)
अध᳚ । स्म॒ । यस्य᳚ । अ॒र्चयः᳚ । स॒म्यक् । स॒म्॑यन्ति᳚ । धू॒मिनः᳚ ।
यत् । ई॒म् । अह᳚ । त्रि॒तः । दि॒वि । उप᳚ । ध्माता᳚॑इव । धम᳚ति । शिशी᳚ते । ध्मा॒तरि᳚ । य॒था॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अधस्म अपिच धूमिनः धूमवतोयस्याग्नेरर्चयः अर्चींषि सम्यक् शोभनं संयन्ति सर्वतः प्राप्नुवन्ति त्रितः त्रिषुस्थानेषु ततोव्याप्तः त्रीणिस्थानानिवाअतीत्य दिवि अन्तरिक्षे यत् यदा ईमयंआत्मानमुपधमति उपवर्धयति तदा ज्वालाः सर्वतोनिर्गच्छन्तीत्यर्थः कथमिव ध्मातेव कर्मारोयथाभस्त्रादिभिरग्निंसंवर्धयतितद्वत् स्वात्मानंवर्धयतीत्यर्थः किंच ध्मातरियथायथाध्मातृसमीपेविद्यमानोग्निः तेनध्मायमानः आत्मानंशिशीते तीक्ष्णीकरोति तद्वत् स्वयमेव स्वात्मानंतीक्ष्णीकरोतीत्यर्थः अहेतिपादपूरणः ॥ यन्ति इण्गतौ यच्छब्दयोगान्निघाताभावः । धमति ध्माशब्दाग्निसंयोगयोः पाघ्रादिनाधमादेशः पूर्ववन्निघाताभावः । शिशीते शोतनूकरणे व्यत्ययेनात्मनेपदी श्लावित्यनुवर्तमाने बहुलंछन्दसीतिविकरणस्यश्लुः आदेचउपदेशेशितीत्यात्वम् श्लावितिद्विर्वचनं बहुलंछन्दसीत्यभ्यासस्येत्वं उभेअभ्यस्तमित्यभ्यस्तसंज्ञायां आतईहल्यघोरितीत्वं तिङउत्तरत्वान्निघाताभावः ॥ ५ ॥

5.9.6
तवा॒हम᳚ग्न ऊ॒तिभि᳚र्मि॒त्रस्य᳚ च॒ प्रश᳚स्तिभिः ।
द्वे॒षो॒युतो॒ न दु᳚रि॒ता तु॒र्याम॒ मर्त्या᳚नाम् ॥
▶ पदपाठः (Word-by-word)
तव᳚ । अ॒हम् । अ॒ग्ने॒ । ऊ॒ति॑भिः᳚ । मि॒त्रस्य᳚ । च॒ । प्रश᳚स्ति॑भिः ।
द्वे॒षः॒॑युतः᳚ । न । दुः॒॑इ॒ता । तु॒र्याम᳚ । मर्त्या᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने अहं मित्रस्य सर्वेषांमित्रभूतस्य तव ऊतिभिः युष्मत्कर्तृकरक्षणैः युष्मत्प्रशस्तिभिश्च अस्मत्कृतैःस्तोत्रैश्चमर्त्यानां शत्रुभूतानां मनुष्याणां दुरिता दुरितानि तत्कर्तृकानि पापसाधनकर्माणि द्वेषोयुतोन द्वेषयुक्तान् शत्रूनिव तुर्याम तरेयं अयमर्थस्त्वद्रक्षणैस्त्वत्संबन्धिस्तुतिभिश्च बाह्याभ्यन्तरशत्रून् तरेयमित्यर्थः ॥ ऊतिभिः अवरक्षणे क्तिन् ज्वरत्वरस्रिव्यविमवामुपधायाश्चेत्यूठ् ऊतियूतिजूतिसातिहेतिकीर्तयश्चेत्यन्तोदात्तत्वेनिपातितः । प्रशस्तिभिः शंसुस्तुतौ क्तिन् कृदुत्तरपदप्रकृतिस्वरापवादत्वेन तादौचनितिकृत्यतावितिगतेरुदात्तत्वम् । द्वेषोयुतः द्विषअप्रीतौ भावे असुन्प्रत्ययः युमिश्रणे कर्तरिक्विप् तुक् कृदुत्तरपदप्रकृतिस्वरत्वम् । तुर्याम तॄप्लवनतरणयोः प्रार्थनायांलिङ् यासुट् लिङःसलोपोनंत्यस्येतिसकारलोपः बहुलंछन्दसीतिशपोलुक् उदोष्ठ्यपूर्वस्यबहुलंछ्न्दसीत्युत्वं यासुडागमस्यउदात्तत्वात् शोषनिघातःअपादादावितिप्रतिषेधात् निघाताभावः ॥ ६ ॥

5.9.7
तं नो᳚ अग्ने अ॒भी नरो᳚ र॒यिं स᳚हस्व॒ आ भ᳚र ।
स क्षे᳚पय॒त्स पो᳚षय॒द्भुव॒द्वाज᳚स्य सा॒तय᳚ उ॒तैधि᳚ पृ॒त्सु नो᳚ वृ॒धे ॥
▶ पदपाठः (Word-by-word)
तत् । नः॒ । अ॒ग्ने॒ । अ॒भि । नरः᳚ । र॒यिम् । स॒ह॒स्वः॒ । आ । भ॒र॒ ।
सः । क्षे॒प॒य॒त् । सः । पो॒ष॒य॒त् । भुव᳚त् । वाज᳚स्य । सा॒तये᳚ । उ॒त । ए॒धि॒ । पृ॒त्॑सु । नः॒ । वृ॒धे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने सहस्वः बलवन् नरः हविषांनेतारः नोस्माकं तं रयिं लोकेप्रसिद्धं पश्वादिलक्षणं धनं अभ्याभर आभिमुख्येनआहर पूर्वोक्तःसोग्निः क्षेपयत्अस्मदीयान् शत्रूनक्षेपयतु सोग्निःपोषयठ अस्मान्पोषयतु वाजस्यान्नस्यसातयेलाभायभुवत् भवतु उत अपिच हेअग्ने पृत्सु पृतनासु युद्धेषु नोस्माकंवृधे समृद्धये एधि भव संग्रामेशत्रुविजयार्थंसत्वसमृद्धिंकुर्वित्यर्थः ॥ सहस्वः सहमर्षणे असुन् सहत्यनेनशत्रूनितिसहोबलं मतुप् महादुपधायाइतिवत्वम् मतुवसोरुसंबुद्धौछन्दसीतिरुत्वम् आमंत्रितस्यचेतिनिघातः । क्षेपयत् क्षिपप्रेरणे णिजंताल्लेट् इतश्चलोपः लेटोडाटावित्यडागमः शप् गुणायादेशौ पररूपत्वं च । पोषयत् पुषपुष्टौ । भुवत् भूसत्तायां भूसुवोस्तिङीतिगुणप्रतिषेधः उवङ् । एधि असभुवि ध्वसोरेद्धावभ्यासलोपश्चेत्येत्वं तस्यासिद्धत्वात् हुझल्भ्योहेर्धिरितिधिरा- देशःनिघातः । पृस्तु पदादिष्वित्यादिनापृतनाशब्दस्यपृदादेशः सावेकाचूत्वादन्तोदात्तत्वम् ॥ ७ ॥

अग्नओजिष्ठमितिसप्तर्चंदशमंसूक्तं ऋष्यादिविनियोगश्चपूर्ववत् चतुर्थीसप्तम्यौपंक्ती अग्नओजिष्ठमंत्याचतुर्थीचेत्यनुक्रान्तम् ।