स क्षे᳚पय॒त्स पो᳚षय॒द्भुव॒द्वाज᳚स्य सा॒तय᳚ उ॒तैधि᳚ पृ॒त्सु नो᳚ वृ॒धे ॥
पदपाठः (Word-by-word)
सः । क्षे॒प॒य॒त् । सः । पो॒ष॒य॒त् । भुव᳚त् । वाज᳚स्य । सा॒तये᳚ । उ॒त । ए॒धि॒ । पृ॒त्॑सु । नः॒ । वृ॒धे ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने सहस्वः बलवन् नरः हविषांनेतारः नोस्माकं तं रयिं लोकेप्रसिद्धं पश्वादिलक्षणं धनं अभ्याभर आभिमुख्येनआहर पूर्वोक्तःसोग्निः क्षेपयत्अस्मदीयान् शत्रूनक्षेपयतु सोग्निःपोषयठ अस्मान्पोषयतु वाजस्यान्नस्यसातयेलाभायभुवत् भवतु उत अपिच हेअग्ने पृत्सु पृतनासु युद्धेषु नोस्माकंवृधे समृद्धये एधि भव संग्रामेशत्रुविजयार्थंसत्वसमृद्धिंकुर्वित्यर्थः ॥ सहस्वः सहमर्षणे असुन् सहत्यनेनशत्रूनितिसहोबलं मतुप् महादुपधायाइतिवत्वम् मतुवसोरुसंबुद्धौछन्दसीतिरुत्वम् आमंत्रितस्यचेतिनिघातः । क्षेपयत् क्षिपप्रेरणे णिजंताल्लेट् इतश्चलोपः लेटोडाटावित्यडागमः शप् गुणायादेशौ पररूपत्वं च । पोषयत् पुषपुष्टौ । भुवत् भूसत्तायां भूसुवोस्तिङीतिगुणप्रतिषेधः उवङ् । एधि असभुवि ध्वसोरेद्धावभ्यासलोपश्चेत्येत्वं तस्यासिद्धत्वात् हुझल्भ्योहेर्धिरितिधिरा- देशःनिघातः । पृस्तु पदादिष्वित्यादिनापृतनाशब्दस्यपृदादेशः सावेकाचूत्वादन्तोदात्तत्वम् ॥ ७ ॥
अग्नओजिष्ठमितिसप्तर्चंदशमंसूक्तं ऋष्यादिविनियोगश्चपूर्ववत् चतुर्थीसप्तम्यौपंक्ती अग्नओजिष्ठमंत्याचतुर्थीचेत्यनुक्रान्तम् ।