श्रवणम्

5.9.4
उ॒त स्म᳚ दुर्गृभीयसे पु॒त्रो न ह्वा॒र्याणा᳚म् ।
पु॒रू यो दग्धासि॒ वनाग्ने᳚ प॒शुर्न यव᳚से ॥
▶ पदपाठः (Word-by-word)
उ॒त । स्म॒ । दुः॒॑गृ॒भी॒य॒से॒ । पु॒त्रः । न । ह्वा॒र्याणा᳚म् ।
पु॒रु । यः । दग्धा᳚ । असि᳚ । वना᳚ । अग्ने᳚ । प॒शुः । न । यव᳚से ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतस्म अपिच ह्वार्याणां कुटिलंगच्छतां सर्पाणां यद्वा आस्कन्दितादिगतिविशेषेणवऋगमनानां अश्वानां पुत्रोन पुत्रइव वालसर्पइवअशिक्षितवालाश्वइव वा दुर्गृभीयसदुःखेनगृह्यसे हेअग्ने यस्त्वं पुरु पुरूणि बहूनि वना वनानि दग्धासि दाहकोभवसि कथमिव यवसेतृणेपशुर्न पशुरिव अयमर्थः अत्यन्तक्षुधार्तःपशुः तृणविषयेविसृष्टःसन् यथासर्वंभक्षयति तद्वदित्यर्थः ॥ दुर्गृभीयसे ग्रहउपादाने यक् ब्रुवईडित्यनुवृत्तौ बहुलंछन्दसीतीडागमः ग्रह्यादिनासंप्रसारणं हग्रहोर्भश्छन्दसीतिभकारः निघातः । ह्वार्याणां ह्वृकौटिल्ये ऋहलोर्ण्यत् आदिवृद्धिः तित्स्वरितइतिस्वरितत्वम् । पुरु पॄपालनपूरणयोः पॄभिदिव्यधिधृषिदृशिभ्यइतिकुप्रत्ययः उदोष्ठ्यपूर्वस्येतिउत्वम् प्रत्ययस्वरेणान्तोदात्तः । असि यद्वृत्तान्नित्यमितिननिघातः ॥ ४ ॥