सं य॒ज्ञास॒श्चर᳚न्ति॒ यं सं वाजा᳚सः श्रव॒स्यवः᳚ ॥
पदपाठः (Word-by-word)
सम् । य॒ज्ञासः᳚ । चर᳚न्ति । यम् । सम् । वाजा᳚सः । श्र॒व॒स्यवः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
यं अग्निं यज्ञासः सर्वेयज्ञाः संचरन्ति सहितागच्छन्ति श्रवस्यवः यजमानस्यप्रभूतांकीर्तिंसंपादयन्तोवाजासोहवींषियमग्निंसंचरन्ति प्राप्नुवन्ति एवंविशिष्टोग्निः दास्वतः हविःप्रक्षेपणादिदानवतः वृक्तबर्हिषः वृक्तानिलूनानिबर्हींषिदर्भायेनासौवृक्तबर्हिः तस्य क्षयस्य क्षियन्तिनिवसंत्यस्मिन् स्वर्गसाधनफलानीतिक्षयः तस्य यजमानस्य यागार्थंहोतादेवानामाह्वाताभवति ॥ दास्वतः दादाने असुन्प्रत्ययान्तः मतुपः अदुपधात्वाद्वत्वं धातुस्वरेणाद्युदात्तएव । क्षयस्य क्षिनिवासगत्योः क्षयोनिवासेइत्याद्युदात्तवम् । वृक्तबर्हिषः वृजीवर्जने वर्जनमत्रोपचाराच्छेदनं निष्ठाप्रत्ययस्वरेणान्तोदात्तः बहुव्रीहित्वात्पूर्वपदप्रकृतिस्वरत्वम् । यज्ञासः यज्ञशब्दः यजयाचेत्यादि -नानङ्प्रत्ययान्तोन्तोदात्तः । चरन्ति चरगतिभक्षणयोः अदुपदेशाल्लसार्वधातुकानुदात्तत्वं यद्वृत्तान्नित्य मितिनि घाता-भावः । जाजसाः वजोर्घञ् वाजः कर्षात्वतइत्यन्तोदात्तत्वं छान्दसत्वात् श्नित्यादिर्नित्यमित्याद्युदात्तः । श्रवस्यवः छन्दसिपरेच्छया- मितिक्यच् क्याच्छन्दसीत्युप्रत्ययः प्रत्ययस्वरेणान्तोदात्तः ॥ २ ॥