पञ्चमं मण्डलम् - सूक्तम् 17

5 ऋचः

ऋषिः: पूरुरात्रेयः देवता: अग्निः छन्दः: अनुष्टुप्

सूक्तम् 5.17 - सम्पूर्णम्

1 / 5
ऋक्: 5.17.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
5.17.1
आ य॒ज्ञैर्दे᳚व॒ मर्त्य᳚ इ॒त्था तव्यां᳚समू॒तये᳚ ।
अ॒ग्निं कृ॒ते स्व᳚ध्व॒रे पू॒रुरी᳚ळी॒ताव᳚से ॥
▶ पदपाठः (Word-by-word)
आ । य॒ज्ञैः । दे॒व॒ । मर्त्यः᳚ । इ॒त्था । तव्यां᳚सम् । ऊ॒तये᳚ ।
अ॒ग्निम् । कृ॒ते । सु॒॑अ॒ध्व॒रे । पू॒रुः । ई॒ळी॒त॒ । अव᳚से ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेदेव मर्त्यः मनुष्यः ऋत्विक् इत्था इत्थं तव्यांसं स्वतेजोभिःप्रवृद्धमग्निं ऊतयेतर्पणाय यज्ञैः स्तोत्रैराह्वयति किंच पूरुर्मनुष्यः स्तोता कृतेस्वध्वरेशोभनेक्रतौ तमग्निंअवसे रक्षणाय ईळीत स्तौति ॥ १ ॥

5.17.2 समानपद
अस्य॒ हि स्वय᳚शस्तर आ॒सा वि᳚धर्म॒न्मन्य᳚से ।
तं नाकं᳚ चि॒त्रशो᳚चिषं म॒न्द्रं प॒रो म᳚नी॒षया᳚ ॥
▶ पदपाठः (Word-by-word)
अस्य᳚ । हि । स्वय᳚शः॑तरः । आ॒सा । वि॒॑ध॒र्म॒न् । मन्य᳚से ।
तम् । नाक᳚म् । चि॒त्र॑शो᳚चिषम् । म॒न्द्रम् । प॒रः । म॒नी॒षया᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेविधर्मन् विशिष्टोधर्मोयस्यासौविधर्मा स्तोता तस्यसंबोधनं हेस्तोतः स्वयशस्तरः सुयशसांमध्येअतिशयेन सुयशास्त्वं मनीषया –प्रकृष्टबुद्भ्यासाधनेन तं प्रसिद्धं अस्य अमुं हृग्निं आसा आस्येन वाचामन्यसेस्तौषि किंविशिष्टमग्निं नाकं सुखं अकंदुःखं नविद्यतेअकंयस्यसः तं चित्रशोचिषं चित्रंतेजसं मन्द्रं स्तुत्यं परः परस्तात्स्थितम् ॥ २ ॥

5.17.3
अ॒स्य वासा उ᳚ अ॒र्चिषा॒ य आयु᳚क्त तु॒जा गि॒रा ।
दि॒वो न यस्य॒ रेत᳚सा बृ॒हच्छोच᳚न्त्य॒र्चयः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । वै । अ॒सौ । ऊं॒ इति᳚ । अ॒र्चिषा᳚ । यः । अयु᳚क्त । तु॒जा । गि॒रा ।
दि॒वः । न । यस्य᳚ । रेत᳚सा । बृ॒हत् । शोच᳚न्ति । अ॒र्चयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योग्निः तुजा जगद्रक्षणसमर्थेनबलेन गिरास्तुत्या अयुक्त संबद्धोभवत् दिवोन द्योतमानस्यादित्यस्यैव यस्याग्नेरेतसा प्रभया कृत्स्नंजगद्भ्याप्तं यस्याग्नेर्बृहत् बृहन्तः अर्चयोदीप्तयः शोचन्तिप्रकाशन्ते अस्यवैखल्वग्नेरर्चिषाप्रभयाअसावादित्यः अर्चिष्मान्भवति उइतिपरणः ॥ ३ ॥

5.17.4 समानपद
अ॒स्य क्रत्वा॒ विचे᳚तसो द॒स्मस्य॒ वसु॒ रथ॒ आ ।
अधा॒ विश्वा᳚सु॒ हव्यो॒॑ग्निर्वि॒क्षु प्र श᳚स्यते ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । क्रत्वा᳚ । वि॑चे᳚तसः । द॒स्मस्य᳚ । वसु᳚ । रथे᳚ । आ ।
अध᳚ । विश्वा᳚सु । हव्यः᳚ । अ॒ग्निः । वि॒क्षु । प्र । श॒स्य॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विचेतसः सुमतयः ऋत्विजः दस्मस्य दर्शनीयस्यास्याग्नेः क्रत्वा कर्मणा यज्ञादिना वसु वसूनि धनानि रथे आदधति हव्यः यज्ञार्थंआह्वातव्यः सोग्निः अध अथ उत्पत्त्यनंतरमेवविश्वासुसर्वासुविक्षुप्रजासु प्रशस्यते स्तूयते ॥ ४ ॥

5.17.5
नू न॒ इद्धि वार्य᳚मा॒सा स᳚चन्त सू॒रयः᳚ ।
ऊर्जो᳚ नपाद॒भिष्ट᳚ये पा॒हि श॒ग्धि स्व॒स्तय᳚ उ॒तैधि᳚ पृ॒त्सु नो᳚ वृ॒धे ॥
▶ पदपाठः (Word-by-word)
नु । नः॒ । इत् । हि । वार्य᳚म् । आ॒सा । स॒च॒न्त॒ । सू॒रयः᳚ ।
ऊर्जः᳚ । न॒पा॒त् । अ॒भिष्ट᳚ये । पा॒हि । श॒ग्धि । स्व॒स्तये᳚ । उ॒त । ए॒धि॒ । पृ॒त्॑सु । नः॒ । वृ॒धे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने नोस्मभ्यंवार्यंवरणीयंधनंनुक्षिप्रंप्रयच्छ इद्धीतिपूरणौ यतः सूरयः स्तोतारः त्वत्तः सकाशादासा आस्येनस्तोत्रेणसचंत धनंलभन्ते किंच हेऊर्जोनपात् अन्नस्यनपातयिताः बलस्यपुत्रवा अभिष्टये अभीच्छते मह्यं अन्नंप्रयच्छेतिशेषः पाहि अस्मानापद्भ्योरक्ष स्वस्तये क्षेमाय पश्वादिलक्षणस्यधनस्यक्षेमार्थंशग्धि त्वां याचे व्यत्ययेनमध्यमः शक्तोभवेतिवा हे अग्ने उतापिच पृत्सु पृतनासु नोवृधे समृद्धये एधि भव ॥ ५ ॥

प्रातरग्निमितिपंचर्चचतुर्थंसूक्तं अत्रेयमनुक्रामणिका-प्रातर्मृक्तवाहाद्वितइतिविशेषणविशिष्टः आत्रेयोद्वितऋषिः पंक्त्यंतंहीति हिशब्दादस्यापिसूक्तस्यपंचमीपंक्तिः पंक्त्यंतपरिभाषया शिष्टाअनुष्टुभः उक्तोविनियोगः प्रातरनुवाकाश्विनशस्त्रयोः ।