पञ्चमं मण्डलम् - सूक्तम् 15

5 ऋचः

ऋषिः: धरुण आंगिरसः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 5.15 - सम्पूर्णम्

1 / 5
ऋक्: 5.15.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
5.15.1 समानपद
प्र वे॒धसे᳚ क॒वये॒ वेद्या᳚य॒ गिरं᳚ भरे य॒शसे᳚ पू॒र्व्याय᳚ ।
घृ॒तप्र᳚सत्तो॒ असु᳚रः सु॒शेवो᳚ रा॒यो ध॒र्ता ध॒रुणो॒ वस्वो᳚ अ॒ग्निः ॥
▶ पदपाठः (Word-by-word)
प्र । वे॒धसे᳚ । क॒वये᳚ । वेद्या᳚य । गिर᳚म् । भ॒रे॒ । य॒शसे᳚ । पू॒र्व्याय᳚ ।
घृ॒त॑प्र᳚सत्तः । असु᳚रः । सु॒॑शेवः᳚ । रा॒यः । ध॒र्ता । ध॒रुणः᳚ । वस्वः᳚ । अ॒ग्निः ॥
▶ सायणभाष्यम् (Sayana Commentary)

योग्निर्घृतप्रसत्तः हवीरूपेणघृतेनप्रसन्नः असुरोबलवान् सुशेवः शोभनं शेवं सुखं यस्यासौसुशेवः शेवमितिसुखनामसुपाठात् रायोधनस्यधर्ता पोषकः धरुणः हविषां धारकः वस्वः वासकोग्निर्भवति वेधसे विधात्रे कवये क्रांतदृशे वेद्याय स्तुत्याय विदिरयंमनिनासमानार्थः मनिश्चस्तुतिकर्मा यशसेयशस्विने पूर्व्याय मुख्याय तस्मैअग्नये गिरं स्तुतिं प्रभरेप्रणयामि ॥ १ ॥

5.15.2
ऋ॒तेन᳚ ऋ॒तं ध॒रुणं᳚ धारयन्त य॒ज्ञस्य᳚ शा॒के प᳚र॒मे व्यो᳚मन् ।
दि॒वो धर्म᳚न्ध॒रुणे᳚ से॒दुषो॒ नॄञ्जा॒तैरजा᳚ता{4} अ॒भि ये न᳚न॒क्षुः ॥
▶ पदपाठः (Word-by-word)
ऋ॒तेन᳚ । ऋ॒तम् । ध॒रुण᳚म् । धा॒र॒य॒न्त॒ । य॒ज्ञस्य᳚ । शा॒के । प॒र॒मे । वि॑ओ᳚मन् ।
दि॒वः । धर्म᳚न् । ध॒रुणे᳚ । से॒दुषः᳚ । नॄन् । जा॒तैः । अजा᳚तान् । अ॒भि । ये । न॒न॒क्षुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

येयजमानाः दिवोद्युलोकस्य धरुणे धारके धर्मन् यज्ञे सेदुषः आसीनान् नॄन् नेतॄन् अजातान् देवान् जातैर्मनुष्यैरृत्विग्भिः अभिननक्षुः अभिप्राप्नुवन्ति तेयजमानाः यज्ञस्यधरुणं धारकं ऋतं सत्यरूपमग्निं शाके कर्मणिनिमित्ते परमे उत्कृष्टे व्योमन् स्थाने उत्तरवेद्यां ऋतेनस्तोत्रेणधारयन्तधारयन्ति ॥ २ ॥

5.15.3
अ॒ङ्हो॒युव᳚स्त॒न्व᳚स्तन्वते॒ वि वयो᳚ म॒हद्दु॒ष्टरं᳚ पू॒र्व्याय᳚ ।
स सं॒वतो॒ नव᳚जातस्तुतुर्यात्सि॒ङ्हं न क्रु॒द्धम॒भित॒ः परि᳚ ष्ठुः ॥
▶ पदपाठः (Word-by-word)
अं॒हः॒॑युवः᳚ । त॒न्वः᳚ । त॒न्व॒ते॒ । वि । वयः᳚ । म॒हत् । दु॒स्तर᳚म् । पू॒र्व्याय᳚ ।
सः । स॒म्॑वतः᳚ । नव᳚॑जातः । तु॒तु॒र्या॒त् । सिं॒हम् । न । क्रु॒द्धम् । अ॒भितः᳚ । परि᳚ । स्थुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

येयजमानाः पूर्व्याय मुख्याय अस्मै अग्नये महत् अधिकं दुष्टरं राक्षसैर्दुःप्रापं वयः हवीरूपमन्नं प्रयच्छन्ति तेयजमानाः तन्वः स्वास्तनूः अंहोयुवः अंहसावियोजिकाः वितन्वते विस्तारयन्ति नवजातः सोग्निः संवतः संगतान् शत्रून् तुतुर्यात् तरतु किंच अभितः सर्वतोवर्तमानाः शत्रवः मां परिवर्जयित्वास्थुः तिष्ठेयुः कथमिव क्रुद्धंसिंहंन सिंहमिव ॥ ३ ॥

5.15.4 समानपद
मा॒तेव॒ यद्भर᳚से पप्रथा॒नो जनं᳚जनं॒ धाय᳚से॒ चक्ष᳚से च ।
वयो᳚वयो जरसे॒ यद्दधा᳚न॒ः परि॒ त्मना॒ विषु᳚रूपो जिगासि ॥
▶ पदपाठः (Word-by-word)
मा॒ता॑इ᳚व । यत् । भर᳚से । प॒प्र॒था॒नः । जन᳚म्॑जनम् । धाय᳚से । चक्ष᳚से । च॒ ।
वयः᳚॑वयः । ज॒र॒से॒ । यत् । दधा᳚नः । परि᳚ । त्मना᳚ । विषु᳚॑रूपः । जि॒गा॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पप्रथानः सर्वत्रप्रथानोयत् यस्त्वं मातेव जननीव जनंजनं सर्वंजनं भरसे बिभर्षि किंच धायसे धारणाय चक्षसे दर्शनायच सर्वैःप्रार्थ्यसे यत् यदा दधानोधार्यमाणोभवसि तदावयोवयः सर्वमन्नं जरसे जरयसि अपिच विषुरूपोनानारूपः सन् त्मना आत्मना परिजिगासि सर्वभूतानिपरिगच्छसि ॥ ४ ॥

5.15.5
वाजो॒ नु ते॒ शव᳚सस्पा॒त्वन्त᳚मु॒रुं दोघं᳚ ध॒रुणं᳚ देव रा॒यः ।
प॒दं न ता॒युर्गुहा॒ दधा᳚नो म॒हो रा॒ये चि॒तय॒न्नत्रि᳚मस्पः ॥
▶ पदपाठः (Word-by-word)
वाजः᳚ । नु । ते॒ । शव᳚सः । पा॒तु॒ । अन्त᳚म् । उ॒रुम् । दोघ᳚म् । ध॒रुण᳚म् । दे॒व॒ । रा॒यः ।
प॒दम् । न । ता॒युः । गुहा᳚ । दधा᳚नः । म॒हः । रा॒ये । चि॒तय᳚न् । अत्रि᳚म् । अ॒स्प॒रित्य᳚स्पः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेदेव द्योतमानाग्ने उरुं पृथुं दोघं कामानांदोग्धारं रायोधनस्यधरुणं धारकं वाजोहविर्लक्षणमन्नं तेत्वदीयस्यशवसोबलस्यान्तं समाप्तिं संपूर्ति नु अद्य पातु रक्षतु तायुस्तस्करः तायुरितिस्तेननाम पदमिव आत्मीयंमार्गमिव गुहा गुहायां दधानः आत्मनःशत्रूणांप्रकाशं निदधानः महोमहते राये धनाय धनलाभार्थं चितयन् सन्मार्गंप्रकाशयन् अत्रिमस्यः अत्रिमृषिं अप्रीणयः यद्वा तं आपद्भ्यः अपारयः स्पृप्रीणनपारणयोरितिधातुः ॥ ५ ॥

बृहद्वयइतिपंचर्चंद्वितीयंसूक्तं आत्रेयस्यपूरोरार्षं अन्त्यापंक्तिः शिष्टाअनुष्टुभः अग्निर्देवता तथाचानुक्रान्तम्-बृहत्पूरुः पंक्त्यंतंहीति । प्रातरनुवाके आग्नेयेक्रतौआनुष्टुभेछन्दसि आश्विनशस्त्रेचेदमादीनिदशसूक्तानि चतुर्थनवमवर्जितानि आदितस्त्रिषुसूक्तेषुअंत्यामुद्धरेत् तथाचसूत्रितम् बृहद्वयइतिदशानांचतुर्थनवमेउद्धरेदुत्तमांचादितस्त्रयाणामिति ।