पञ्चमं मण्डलम् - सूक्तम् 4

11 ऋचः

ऋषिः: वसुश्रुत आत्रेयः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 5.4 - सम्पूर्णम्

1 / 11
ऋक्: 5.4.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
5.4.1
त्वाम᳚ग्ने॒ वसु᳚पतिं॒ वसू᳚नाम॒भि प्र म᳚न्दे अध्व॒रेषु᳚ राजन् ।
त्वया॒ वाजं᳚ वाज॒यन्तो᳚ जयेमा॒भि ष्या᳚म पृत्सु॒तीर्मर्त्या᳚नाम् ॥
▶ पदपाठः (Word-by-word)
त्वाम् । अ॒ग्ने॒ । वसु᳚॑पतिम् । वसू᳚नाम् । अ॒भि । प्र । म॒न्दे॒ । अ॒ध्व॒रेषु᳚ । रा॒ज॒न् ।
त्वया᳚ । वाज᳚म् । वा॒ज॒॑यन्तः᳚ । ज॒ये॒म॒ । अ॒भि । स्या॒म॒ । पृ॒त्सु॒तीः । मर्त्या᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्वामग्न इत्येकादशर्चं चतुर्थं सूक्तमात्रेयस्य वसुश्रुतस्यार्षं त्रैष्टुभमाग्नेयम् । अनुक्रान्तं च । त्वामग्ने एकादशेति । प्रातरनुवाकाश्विनशस्त्रयोर्विनियोगोऽबोध्यग्निरित्यत्रोक्तः ॥

हे अग्ने वसूनां वसुपतिम् । वृत्त्यवृत्तिभ्यां वसूनां बाहुल्यं तत्स्वामित्वं चोक्तम् । बाहूनां धनानां स्वामिनं त्वामध्वरेषु यागेष्वभि प्र मन्दे । अभिमुख्येन स्त्ॐइ हे राजन् । किञ्च त्वयानुकूलेन वाजयन्तोऽन्नमिच्छन्तो वयं वाजं जयेम । किञ्च मर्त्यानां मरनधर्मकाणां पृत्सुतीः सेना अभिष्याम । अभिभवेम ॥ १ ॥

5.4.2
ह॒व्य॒वाळ॒ग्निर॒जरः᳚ पि॒ता नो᳚ वि॒भुर्वि॒भावा᳚ सु॒दृशी᳚को अ॒स्मे ।
सु॒गा॒र्ह॒प॒त्याः समिषो᳚ दिदीह्यस्म॒द्र्य१॒᳚क्सं मि᳚मीहि॒ श्रवां᳚सि ॥
▶ पदपाठः (Word-by-word)
ह॒व्य॒॑वाट् । अ॒ग्निः । अ॒जरः᳚ । पि॒ता । नः॒ । वि॒॑भुः । वि॒भा॑वा᳚ । सु॒॑दृशी᳚कः । अ॒स्मे इति᳚ ।
सु॒॑गा॒र्ह॒प॒त्याः । सम् । इषः᳚ । दि॒दी॒हि॒ । अ॒स्म॒द्र्य᳚क् । सम् । मि॒मी॒हि॒ । श्रवां᳚सि ॥
▶ सायणभाष्यम् (Sayana Commentary)

दर्शपूर्णमासे पत्नीसंयाजे गृहपतेर्याज्यैषा । सुत्रितं च । हव्यवालग्निरजरः पिता न इति पत्नीसंयाजाः । आ. १-१० । इति । एवाअसुवां हविः ष्वप्यग्नेरेषैव याज्या । सूत्रितं च । हव्यवाळग्निरजरः पिता नस्त्वं च सोम नो वशः । आ. ४-१० । इति ॥

अयं हव्यवाडग्निरजरोऽजीर्नः सन् नः पिता भवत्विति शेशः । किञ्च विभुर्व्याप्तः विभावा दीप्तिमान् सुदृशीकः शोभनदर्शनोऽस्मे अस्माकं भवतु । अथ प्रत्यक्शवादः । सुगार्हपत्याः शोभनगार्हपत्ययुक्तानीशोऽन्नानि सं दिदीहि । सम्यक् प्रकाशय । ददस्व वा । अस्मद्र्यक् अस्मदभिमुखं श्रवांस्यन्नानि सं मिमीहि । सम्यक् प्रयच्छ ॥ २ ॥

5.4.3 समानपद
वि॒शां क॒विं वि॒श्पतिं॒ मानु᳚षीणां॒ शुचिं᳚ पाव॒कं घृ॒तपृ᳚ष्ठम॒ग्निम् ।
नि होता᳚रं विश्व॒विदं᳚ दधिध्वे॒ स दे॒वेषु᳚ वनते॒ वार्या᳚णि ॥
▶ पदपाठः (Word-by-word)
वि॒शाम् । क॒विम् । वि॒श्पति᳚म् । मानु᳚षीणाम् । शुचि᳚म् । पा॒व॒कम् । घृ॒त॑पृ᳚ष्ठम् । अ॒ग्निम् ।
नि । होता᳚रम् । वि॒श्व॒॑विद᳚म् । द॒धि॒ध्वे॒ । सः । दे॒वेषु᳚ । व॒न॒ते॒ । वार्या᳚णि ॥
▶ सायणभाष्यम् (Sayana Commentary)

मानुषीणां विशां विश्पतिं सर्वासां मनुष्यरूपाणां प्रजानां पालकं स्वामिनं वा कविं मेधाविनं शुचिं शुद्धं दीप्तं वा पावकमन्येषां शोधकं घृतपृष्ठं प्रदीप्तपृष्ठोपलक्षितशरीरम् । अथवा उपरितनभागोज्योपेतं होतारं होमनिष्पादकं विश्वविदं विश्वस्य वेत्तारमग्निं नि दधिध्वे । धारयथ । हे रुत्विजः । स देवो देवेषु मध्ये वार्याणि वरणीयानि धनानि वनते । सम्भजतेऽस्मदर्थः । स्वयं वा वार्याणि हवींषि वनते ॥ ३ ॥

5.4.4
जु॒षस्वा᳚ग्न॒ इळ᳚या स॒जोषा॒ यत᳚मानो र॒श्मिभि॒ः सूर्य᳚स्य ।
जु॒षस्व᳚ नः स॒मिधं᳚ जातवेद॒ आ च᳚ दे॒वान्ह᳚वि॒रद्या᳚य वक्षि ॥
▶ पदपाठः (Word-by-word)
जु॒षस्व᳚ । अ॒ग्ने॒ । इळ᳚या । स॒॑जोषाः᳚ । यत᳚मानः । र॒श्मि॑भिः᳚ । सूर्य᳚स्य ।
जु॒षस्व᳚ । नः॒ । स॒म्॑इध᳚म् । जा॒त॒॑वे॒दः॒ । आ । च॒ । दे॒वान् । ह॒विः॒॑अद्या᳚य । व॒क्षि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने जुषस्व । सेवस्व स्तुतिम् । इळया वेदिलक्षनया भूम्या वाचा वा सजॊशाः समानप्रीतिः । तथा सूर्यस्य रश्मिभिर्यतमानः प्रयत्नमुषः काले कुर्वन् । किञ्च हे जातवेदो जातस्य वेदितरग्ने नोऽस्मदीयां समिधं जुषस्व । सेवस्व । आवह च देवान्हविरद्याय हविरदनाय । आवाह्य वक्षि । वहसि तद्धविः ॥ ४ ॥

5.4.5
जुष्टो॒ दमू᳚ना॒ अति᳚थिर्दुरो॒ण इ॒मं नो᳚ य॒ज्ञमुप᳚ याहि वि॒द्वान् ।
विश्वा᳚ अग्ने अभि॒युजो᳚ वि॒हत्या᳚ शत्रूय॒तामा भ᳚रा॒ भोज᳚नानि ॥
▶ पदपाठः (Word-by-word)
जुष्टः᳚ । दमू᳚नाः । अति᳚थिः । दु॒रो॒णे । इ॒मम् । नः॒ । य॒ज्ञम् । उप᳚ । या॒हि॒ । वि॒द्वान् ।
विश्वा᳚ । अ॒ग्ने॒ । अ॒भि॒॑युजः᳚ । वि॒॑हत्य᳚ । श॒त्रु॒॑य॒ताम् । आ । भ॒र॒ । भोज᳚नानि ॥
▶ सायणभाष्यम् (Sayana Commentary)

अथ पवित्रेष्त्याम् स्विष्तकृतोऽनुवाक्यैषा । सूत्रितं च । जुश्टो दमूना अग्ने शर्ध महते सौभगायेति संयाज्ये । आ. २-१२ । इति मरुद्भ्यः पुरोडाशं सप्तकपालमित्यत्रापि स्विष्टकृतोऽनुवाक्या । अत्यासो न ये मरुतः स्वञ्चो जुष्तो दमूनाः । आ. २-१८ । इति ॥

जुष्टः पर्याप्तो दमूना दानमना दान्तमना वा अतिथिस्तद्वद्दुरोणे गृहे पूज्यः सन् इमं नोऽस्मदीयं यज्ञमुप याहि । उपगच्छ । विद्वान् जानन् हे अग्ने विश्वा अभियुजो सर्वानभियोक्तॄन्विहत्य शत्रूयतां तेषां भोजनान्यन्नानि धनान्या भर । आहर । अतिथिरभ्यतितो ग्रुहान्भवतीत्यादिनिरुक्तम् । नि. ४-५ । द्रष्टव्यम् ॥ ५ ॥

5.4.6
व॒धेन॒ दस्युं॒ प्र हि चा॒तय᳚स्व॒ वयः᳚ कृण्वा॒नस्त॒न्वे॒३॒᳚ स्वायै᳚ ।
पिप᳚र्षि॒ यत्स᳚हसस्पुत्र दे॒वान्त्सो अ᳚ग्ने पाहि नृतम॒ वाजे᳚ अ॒स्मान् ॥
▶ पदपाठः (Word-by-word)
वे॒धेन᳚ । दस्यु᳚म् । प्र । हि । चा॒तय᳚स्व । वयः᳚ । कृ॒ण्वा॒नः । त॒न्वे᳚ । स्वायै᳚ ।
पिप᳚र्षि । यत् । स॒ह॒सः॒ । पु॒त्र॒ । दे॒वान् । सः । अ॒ग्ने॒ । पा॒हि॒ । नृ॒॑त॒म॒ । वाजे᳚ । अ॒स्मान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने वधेनायुधेन दस्युमुपक्षपयितारं प्र हि जातयस्व । प्रणाशय । हीति पूरणः । वयः कृण्वानः कुर्वाणस्तन्वे शरीराय स्वायै स्वीयाय । अथवा स्वायै तन्वे यजमानादिरूपाय पुत्राय वयोऽन्नं कुर्वाणः । यद्यस्मात् सहसस्पुत्राग्ने देवान्पिपर्शि । तर्पयसि । हे नृतम नेतृतमाग्ने स त्वं वाजे सङ्ग्रामेऽस्मान् पाहि । रक्ष ॥ ६ ॥

5.4.7 समानपद
व॒यं ते᳚ अग्न उ॒क्थैर्वि᳚धेम व॒यं ह॒व्यैः पा᳚वक भद्रशोचे ।
अ॒स्मे र॒यिं वि॒श्ववा᳚रं॒ समि᳚न्वा॒स्मे विश्वा᳚नि॒ द्रवि᳚णानि धेहि ॥
▶ पदपाठः (Word-by-word)
व॒यम् । ते॒ । अ॒ग्ने॒ । उ॒क्थैः । वि॒धे॒म॒ । व॒यम् । ह॒व्यैः । पा॒व॒क॒ । भ॒द्र॒॑शो॒चे॒ ।
अ॒स्मे इति᳚ । र॒यिम् । वि॒श्व॑वा᳚रम् । सम् । इ॒न्व॒ । अ॒स्मे इति᳚ । विश्वा᳚नि । द्रवि᳚णानि । धे॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने ते त्वां वयमुक्थैः शस्त्रैर्विधेम । परिचरेम । वयं हव्यैर्हविर्भिर्विधेम । पावक शोधक हे भद्रशोचे कल्याणदीप्ते अस्मे अस्मभ्यं विश्ववारं विश्वैर्वरणीयं रय ं धनं समिन्व । प्रापय । अस्मे अस्मभ्यं विश्वानि द्रविणानि देहि । स्थापय ॥ ७ ॥

5.4.8 समानपद
अ॒स्माक᳚मग्ने अध्व॒रं जु᳚षस्व॒ सह᳚सः सूनो त्रिषधस्थ ह॒व्यम् ।
व॒यं दे॒वेषु᳚ सु॒कृतः᳚ स्याम॒ शर्म᳚णा नस्त्रि॒वरू᳚थेन पाहि ॥
▶ पदपाठः (Word-by-word)
अ॒स्माक᳚म् । अ॒ग्ने॒ । अ॒ध्व॒रम् । जु॒ष॒स्व॒ । सह᳚सः । सू॒नो॒ इति᳚ । त्रि॒॑स॒ध॒स्थ॒ । ह॒व्यम् ।
व॒यम् । दे॒वेषु᳚ । सु॒॑कृतः᳚ । स्या॒म॒ । शर्म᳚णा । नः॒ । त्रि॒॑वरू᳚थेन । पा॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने अस्माकमध्वरं जुषस्व । सेवस्व । हे सहसः सूनो हे बलस्य पुत्र त्रिषधस्थ त्रिषु क्षित्यादिषु स्थानेषु स्थितहव्यं हविर्जुषस्व । यद्वा । अध्वरं हविरिति योज्यम् । अहिंसितं हविरित्यर्थः । वयं यजमाना देवेषु मध्ये सुकृतः शोभनापूर्वकर्तारः स्याम भवेम । त्रिवरूथेन वाचिकादिभेदेन त्रिधा वरणीयेन शर्मणा सुखेन त्रिच्छकिष्केण ग्रुहेण वा नः पाहि । रक्श ॥ ८ ॥

5.4.9
विश्वा᳚नि नो दु॒र्गहा᳚ जातवेद॒ः सिन्धुं॒ न ना॒वा दु᳚रि॒ताति᳚ पर्षि ।
अग्ने᳚ अत्रि॒वन्नम᳚सा गृणा॒नो॒३॒᳚॑स्माकं᳚ बोध्यवि॒ता त॒नूना᳚म् ॥
▶ पदपाठः (Word-by-word)
विश्वा᳚नि । नः॒ । दुः॒॑गहा᳚ । जा॒त॒॑वे॒दः॒ । सिन्धु᳚म् । न । ना॒वा । दुः॒॑इ॒ता । अति᳚ । प॒र्षि॒ ।
अग्ने᳚ । अ॒त्रि॒॑वत् । नम᳚सा । गृ॒णा॒नः । अ॒स्माक᳚म् । बो॒धि॒ । अ॒वि॒ता । त॒नूना᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे जातवेदो नोऽस्माकं दुर्गहा दुःखेन गाह्यानि दुःखेन भोग्यानि विश्वानि दुरितान्यति पर्षि । अतिपारय । सिन्धुं न नावा नदीं नाविको यथा तद्वत् । हे अग्ने अत्रिवत् अत्रेर्यथा तथास्माकं नमसा स्तोत्रेण गृणानः स्तूयुमानः सन् अस्माकं तनूनामविता रक्षको बोधि । बुध्यस्व ॥ ९ ॥

5.4.10 समानपद
यस्त्वा᳚ हृ॒दा की॒रिणा॒ मन्य᳚मा॒नो॑म᳚र्त्यं॒ मर्त्यो॒ जोह᳚वीमि ।
जात᳚वेदो॒ यशो᳚ अ॒स्मासु᳚ धेहि प्र॒जाभि᳚रग्ने अमृत॒त्वम᳚श्याम् ॥
▶ पदपाठः (Word-by-word)
यः । त्वा॒ । हृ॒दा । की॒रिणा᳚ । मन्य᳚मानः । अम᳚र्त्यम् । मर्त्यः᳚ । जोह᳚वीमि ।
जात᳚॑वेदः । यशः᳚ । अ॒स्मासु᳚ । धे॒हि॒ । प्र॒॑जाभिः᳚ । अ॒ग्ने॒ । अ॒मृ॒त॒॑त्वम् । अ॒श्या॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुत्रकामेष्ट्यां यस्त्वेत्येषा प्रधानस्य याज्या । सूत्रितं च । यस्वा हृदा कीरिणा मन्यमानोऽग्निस्तुविश्रवस्तमम् । आ. २-१० । इति ॥

यो मर्त्यो मरणधर्माहममर्त्यमनाशं त्वा त्वां कीरिणा स्तुत्यादिषु विक्षिप्तेन हृदा हृदयेन युक्तो मन्यमानः स्तुवन् जोहवीमि । अत्यर्थमाह्वयामि । यद्वा । स्तोतृवाचकेन कीरिणाशब्देन स्तुतिरुपलक्श्यते । स्तुतियुक्तेन मनसा त्वां मन्यमानो जोहवीमि । हे जातवेदो यशो धनं प्रजां वास्मासु धेहि । प्रजाभिस्त्वद्धत्ताभिर्हे अग्नेऽहममृतत्वं सन्तत्यविच्छेदलक्शनमश्याम् । प्राप्नुयाम् । प्रजामनु प्रजायसे तदु ते मर्त्यामृतम् । तै. ब्रा. १-५-५-६ । इति हि श्रुतिः ॥ १० ॥

5.4.11
यस्मै॒ त्वं सु॒कृते᳚ जातवेद उ लो॒कम᳚ग्ने कृ॒णवः᳚ स्यो॒नम् ।
अ॒श्विनं॒ स पु॒त्रिणं᳚ वी॒रव᳚न्तं॒ गोम᳚न्तं र॒यिं न᳚शते स्व॒स्ति ॥
▶ पदपाठः (Word-by-word)
यस्मै᳚ । त्वम् । सु॒॑कृते᳚ । जा॒त॒॑वे॒दः॒ । ऊं॒ इति᳚ । लो॒कम् । अ॒ग्ने॒ । कृ॒णवः᳚ । स्यो॒नम् ।
अ॒श्विन᳚म् । सः । पु॒त्रिण᳚म् । वी॒र॑व᳚न्तम् । गो॑म᳚न्तम् । र॒यिम् । न॒श॒ते॒ । स्व॒स्ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

तस्यामेव पुत्रकामेष्ट्यां यस्मै त्वमित्येषाग्नेः पुत्रवतोऽनुवाक्या । यस्मै त्वं सुकृते जातवेदो यस्त्वा हृदा कीरिणा मन्यमानः । आ. २-१० । इति हि सूत्रितं ॥

हे जातवेदोऽग्ने त्वं यस्मै सुकृते सुकर्मणे यजमानाय । उ इति पूरणः । लोकं स्योनं सुखंकरं कृणवः । अकरोः । यद्वा । लोकमालोकेन स्योनं क्रुणवः । अनुग्रहेण कुर्वित्यर्थः । स यजमानोऽश्विनं बह्वश्वोपेतं पुत्रिणं बहुपुत्रोपेतं वीरवन्तं वीरैर्वीर्येण वोपेतं गोमन्तं रयिं धनं नशते । प्राप्नोति । स्वस्त्यविनश्वरं ॥ ११ ॥