श्रवणम्

5.4.9
विश्वा᳚नि नो दु॒र्गहा᳚ जातवेद॒ः सिन्धुं॒ न ना॒वा दु᳚रि॒ताति᳚ पर्षि ।
अग्ने᳚ अत्रि॒वन्नम᳚सा गृणा॒नो॒३॒᳚॑स्माकं᳚ बोध्यवि॒ता त॒नूना᳚म् ॥
▶ पदपाठः (Word-by-word)
विश्वा᳚नि । नः॒ । दुः॒॑गहा᳚ । जा॒त॒॑वे॒दः॒ । सिन्धु᳚म् । न । ना॒वा । दुः॒॑इ॒ता । अति᳚ । प॒र्षि॒ ।
अग्ने᳚ । अ॒त्रि॒॑वत् । नम᳚सा । गृ॒णा॒नः । अ॒स्माक᳚म् । बो॒धि॒ । अ॒वि॒ता । त॒नूना᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे जातवेदो नोऽस्माकं दुर्गहा दुःखेन गाह्यानि दुःखेन भोग्यानि विश्वानि दुरितान्यति पर्षि । अतिपारय । सिन्धुं न नावा नदीं नाविको यथा तद्वत् । हे अग्ने अत्रिवत् अत्रेर्यथा तथास्माकं नमसा स्तोत्रेण गृणानः स्तूयुमानः सन् अस्माकं तनूनामविता रक्षको बोधि । बुध्यस्व ॥ ९ ॥