उ॒क्षन्ते॒ अश्वा॒न्तरु᳚षन्त॒ आ रजो॑नु॒ स्वं भा॒नुं श्र᳚थयन्ते अर्ण॒वैः ॥
पदपाठः (Word-by-word)
उ॒क्षन्ते᳚ । अश्वा᳚न् । तरु᳚षन्ते । आ । रजः᳚ । अनु᳚ । स्वम् । भा॒नुम् । श्र॒थ॒य॒न्ते॒ । अ॒र्ण॒वैः ॥
सायणभाष्यम् (Sayana Commentary)
हेमरुतः वोयुष्मभ्यं सुविताय सुष्ठुप्राप्तव्याय दावने हविःप्रदानाय स्पट् स्प्रष्टा होता प्र प्रकर्षेण अक्रन् क्रन्दति स्तौति वोयुष्मान्वा सुष्ठुप्राप्तव्यायदानयाक्रन् क्रन्दतेःशब्दकर्मणोलडर्थेलुङितिपिरूपं हेहोतः दिवोद्योतमानाय द्युदेवाय प्रार्च प्रकर्षेणस्तुहि हेआत्मन् तथा पृथिव्यै पृथिव्याश्च ऋतं स्तोत्रं भरे संपादयामि द्यावापृथिव्यावपिमरुतामाधारत्वात् अत्रनिपातभाजोभवतः किंच तेमरुतोश्वान् व्याप- कानुदकसंघान् उक्षन्तेसिंचन्ति रजआअन्तरिक्षं आसर्वतस्तरुषन्तेतरन्ति संचरन्ति स्वंभानुं स्वकीयंतेजः अर्णवैःमेघैःसह अनुश्रथयन्ते अनुश्लेषयन्ति अनुकूलंप्रापयन्तीत्यर्थः ॥ १ ॥