श्रवणम्

5.59.8 समानपद
मिमा᳚तु॒ द्यौरदि᳚तिर्वी॒तये᳚ न॒ः सं दानु᳚चित्रा उ॒षसो᳚ यतन्ताम् ।
आचु᳚च्यवुर्दि॒व्यं कोश᳚मे॒त ऋषे᳚ रु॒द्रस्य᳚ म॒रुतो᳚ गृणा॒नाः ॥
▶ पदपाठः (Word-by-word)
मिमा᳚तु । द्यौः । अदि᳚तिः । वी॒तये᳚ । नः॒ । सम् । दानु᳚॑चित्राः । उ॒षसः᳚ । य॒त॒न्ता॒म् ।
आ । अ॒चु॒च्य॒वुः॒ । दि॒व्यम् । कोश᳚म् । ए॒ते । ऋषे᳚ । रु॒द्रस्य᳚ । म॒रुतः᳚ । गृ॒णा॒नाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

नोस्मदर्थं द्यौरंतरिक्षं मिमातुनिर्मिमातुवृष्टिं अस्मदनुकूलांकरोत्वित्यर्थः कीदृशी अदितिरदीना यद्वा द्यौर्मिमातु अदितिर्भूमिश्च मिमातु सुखं किमर्थं वीतये उत्पत्तये प्रजननायवा दानुचित्राः विचित्रप्रकाशादिदानाः उषसः संयतंतां हेऋषे त्वया गृणानाः स्तूयमाना- मरुतः रुद्रस्यपुत्राइत्यर्थः एते दिव्यंकोशं मेघमुदकमाचुच्यवुः आच्यावयन्ति द्विकर्मकोयं ॥ ८ ॥

ईळेअग्निंस्ववसमित्यष्टर्चंचतुर्थंसूक्तं श्यावाश्वस्यार्षं सप्तम्यष्टम्यौजगत्यौ शिष्टाःषट् त्रिष्टुभःमरुद्देवताकं अग्निमरुद्देवताकंवा अनुक्रान्तं- च-ईळेद्विजगत्यन्तमाग्नेयंचवेति । सूक्तविनियोगोलैंगिकः आद्याकारीर्यांसामिधेनीषुधाय्या सूत्रितंच-ईळेअग्निंस्व्वसंनमोभिरितिधाय्ये- इति ।