श्रवणम्

5.59.6
ते अ᳚ज्ये॒ष्ठा अक᳚निष्ठास उ॒द्भिदो॑म᳚ध्यमासो॒ मह᳚सा॒ वि वा᳚वृधुः ।
सु॒जा॒तासो᳚ ज॒नुषा॒ पृश्नि᳚मातरो दि॒वो मर्या॒ आ नो॒ अच्छा᳚ जिगातन ॥
▶ पदपाठः (Word-by-word)
ते । अ॒ज्ये॒ष्ठाः । अक᳚निष्ठासः । उ॒त्॑भिदः᳚ । अम᳚ध्यमासः । मह᳚सा । वि । व॒वृ॒धुः॒ ।
सु॒॑जा॒तासः᳚ । ज॒नुषा᳚ । पृश्नि᳚॑मातरः । दि॒वः । मर्याः᳚ । आ । नः॒ । अच्छ᳚ । जि॒गा॒त॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तेमरुतः अज्येष्ठाः अकनिष्ठासः अकनिष्ठाः उद्भिदउद्भेदयितारः शत्रूणां अमध्यमासः अमध्यमाः सर्वप्रकारैःसमः महसा तेजसा विववृधुः विवर्धन्ते सुजातासः सुष्ठुसंभूताः जनुषा जन्मना पृश्निमातरः पृश्नेःपुत्राः मर्यामनुष्येभ्योहितायूयं दिवः सकाशात् नोस्मानच्छा- भिमुखं आजिगातन सर्वतःप्रशंसन साध्वनुष्ठितमिति उत्तरार्धःप्रत्यक्षकृताः यद्वा येसुजाताजनुषापृश्निमातरश्चतान् दिवआगतान् हेऋ- त्विजोमर्यायूयमाजिगातन आगच्छत अथवा तेनोच्छागच्छन्त्वस्मदभिमुखं ॥ ६ ॥