श्रवणम्

5.59.2
अमा᳚देषां भि॒यसा॒ भूमि᳚रेजति॒ नौर्न पू॒र्णा क्ष᳚रति॒ व्यथि᳚र्य॒ती ।
दू॒रे॒दृशो॒ ये चि॒तय᳚न्त॒ एम᳚भिर॒न्तर्म॒हे वि॒दथे᳚ येतिरे॒ नरः᳚ ॥
▶ पदपाठः (Word-by-word)
अमा᳚त् । ए॒षा॒म् । भि॒यसा᳚ । भूमिः᳚ । ए॒ज॒ति॒ । नौः । न । पू॒र्णा । क्ष॒र॒ति॒ । व्यथिः᳚ । य॒ती ।
दू॒रे॒॑दृशः᳚ । ये । चि॒तय᳚न्ते । एम᳚॑भिः । अ॒न्तः । म॒हे । वि॒दथे᳚ । ये॒ति॒रे॒ । नरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषां अन्वादेशविषयत्वादनुदात्तः एषांमरुतां भियसा भयेन भूमिरेजति कंपते नौर्न पूर्णा प्राणिभिः सायथोदकमध्ये क्षरति चलति व्यथिः व्यथितायती गच्छन्ती एतदुभयंनौविशेषणं दूरेदृशोदूरेदृश्यमानाअपि येमरुतः एमभिर्गमनैः चितयन्ते ज्ञायन्ते तेमहान्तोमरु- तोविदथे यज्ञे महे महते हविषे हविर्भक्षणाय अमात् स्वस्थानात् अन्तर्द्यावापृथिव्योर्मध्ये येतिरे यतन्ते नरोनेतारोमरुतः ॥ २ ॥