श्रवणम्

5.59.4
को वो᳚ म॒हान्ति᳚ मह॒तामुद᳚श्नव॒त्कस्काव्या᳚ मरुत॒ः को ह॒ पौंस्या᳚ ।
यू॒यं ह॒ भूमिं᳚ कि॒रणं॒ न रे᳚जथ॒ प्र यद्भर᳚ध्वे सुवि॒ताय᳚ दा॒वने᳚ ॥
▶ पदपाठः (Word-by-word)
कः । वः॒ । म॒हान्ति᳚ । म॒ह॒ताम् । उत् । अ॒श्न॒व॒त् । कः । काव्या᳚ । म॒रु॒तः॒ । कः । ह॒ । पौंस्या᳚ ।
यू॒यम् । ह॒ । भूमि᳚म् । कि॒रण᳚म् । न । रे॒ज॒थ॒ । प्र । यत् । भर᳚ध्वे । सु॒वि॒ताय᳚ । दा॒वने᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः वोयुष्माकं महतां पूज्यानां कोयजमानोमहान्तिश्रेयांसि उदश्नवत् उत्कृष्टं प्राप्नुयात् कश्चतदर्थं काव्या काव्यानि कवीनां यु- ष्माकंसंबन्धीनि स्तोत्राणि उदश्नवत् कोहकश्च पौंस्या पौंस्यानि पराक्रमान् उकश्नवत् आदरार्थंपुनर्वचनं यूयंह यूयंखलुभूमिं किरणंन किरणमिव रेजथ किरणंयथावृष्ट्यर्थंचालयथ तद्वत् भूमिंरेजथ यद्यस्मात्सुविताय सुष्ठुप्राप्तव्याय प्राप्तव्यस्येत्यर्थः तादृशस्य धनस्य वृष्ट्युदकस्यवा दावने दानाय प्रभरध्वे प्रकर्षेणसंपादयथवृष्टिं यस्माद्युयं एवंकुरुथ तस्मात्कएवंकरोतीत्यर्थः ॥ ४ ॥