श्रवणम्

5.59.3
गवा᳚मिव श्रि॒यसे॒ शृङ्ग᳚मुत्त॒मं सूर्यो॒ न चक्षू॒ रज᳚सो वि॒सर्ज᳚ने ।
अत्या᳚ इव सु॒भ्व१॒᳚श्चार᳚वः स्थन॒ मर्या᳚ इव श्रि॒यसे᳚ चेतथा नरः ॥
▶ पदपाठः (Word-by-word)
गवा᳚म्॑इव । श्रि॒यसे᳚ । शृङ्ग᳚म् । उ॒त्॑त॒मम् । सूर्यः᳚ । न । चक्षुः᳚ । रज᳚सः । वि॒॑सर्ज᳚ने ।
अत्याः᳚॑इव । सु॒॑भ्वः᳚ । चार᳚वः । स्थ॒न॒ । मर्याः᳚॑इव । श्रि॒यसे᳚ । चे॒त॒थ॒ । न॒रः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः यूयं गवांश्रृगमिव उत्तममुत्कृष्टं उष्णीषपद्दादिकं श्रियसे श्रिये धारयथ इतिशेषः सूर्योन सूर्यइव समथा रजसः तेजसोविसर्ज- ने च्क्षुः दर्शनसाधनं मंडलं धत्ते तद्वद्रजसोवृष्टेर्विसर्जने विसर्जनाय चक्षुः सर्वस्यप्रकाशकंतेजोधारयथ अत्याइवाश्वाइव सुभ्वः सुष्ठुसर्वत्र- भवन्तः वेगवन्तः चारवोदर्शनीयाः स्थन भवथ मर्यामर्त्यायजमानाइव तेयथा श्रियसे जानन्ति यज्ञादिकंतद्वछ्रियेचेतथ जानथ हेनरोने- तारोमरुतः ॥ ३ ॥