पञ्चमं मण्डलम् - सूक्तम् 25

9 ऋचः

ऋषिः: वसूयव आत्रेयाः देवता: अग्निः छन्दः: अनुष्टुप्

सूक्तम् 5.25 - सम्पूर्णम्

1 / 9
ऋक्: 5.25.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
5.25.1
अच्छा᳚ वो अ॒ग्निमव᳚से दे॒वं गा᳚सि॒ स नो॒ वसु᳚ः ।
रास᳚त्पु॒त्र ऋ᳚षू॒णामृ॒तावा᳚ पर्षति द्वि॒षः ॥
▶ पदपाठः (Word-by-word)
अच्छ᳚ । वः॒ । अ॒ग्निम् । अव᳚से । दे॒वम् । गा॒सि॒ । सः । नः॒ । वसुः᳚ ।
रास᳚त् । पु॒त्रः । ऋ॒षू॒णाम् । ऋ॒त॑वा᳚ । प॒र्ष॒ति॒ । द्वि॒षः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवसूयवः वोयूयं देवमाग्निं अवसे रक्षणाय अच्छगासि अभिगायत वसुः अग्निहोत्रार्थंयजमानानांगृहेवासयितासोग्निर्नोस्मभ्यंरासत् कामान् ददातु ऋषूणामृषीणांपुत्रः ऋषिभिर्मन्थनेनजनितत्वात् पुत्रउपचर्यते ऋतावा ऋतावान् सत्यवानुदकवान्वासोग्निः द्विषः अस्माकं शत्रून् पर्षति पारयतु ॥ १ ॥

5.25.2
स हि स॒त्यो यं पूर्वे᳚ चिद्दे॒वास᳚श्चि॒द्यमी᳚धि॒रे ।
होता᳚रं म॒न्द्रजि᳚ह्व॒मित्सु᳚दी॒तिभि᳚र्वि॒भाव᳚सुम् ॥
▶ पदपाठः (Word-by-word)
सः । हि । स॒त्यः । यम् । पूर्वे᳚ । चि॒त् । दे॒वासः᳚ । चि॒त् । यम् । ई॒धि॒रे ।
होता᳚रम् । म॒न्द्र॑जि᳚ह्वम् । इत् । सु॒दी॒ति॑भिः᳚ । वि॒भा॑व᳚सुम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वेत्पूर्वेमहर्षयः होतारं देवानामाह्वातारं मन्द्रजिह्वं हविषांप्रदानेनदेवानांमादयित्री जिह्वायस्यसः तं यद्वा मोदनजिह्वं तथाहयास्कः-मन्द्रजिह्वंमंदनजिह्वंमोदनजिह्वमितिवेति । सुदीतिभिः शोभनदीप्तिभिर्युक्तं विभावसुं प्रभाधनं यमग्निंईधिरे समैन्धत देवासश्चित् देवाअपियमग्निमीधिरे समैन्धत सह्यग्निः सत्योभवति सत्यप्रतिश्रवोभवति इदितिपूरणः ॥ २ ॥

5.25.3
स नो᳚ धी॒ती वरि᳚ष्ठया॒ श्रेष्ठ᳚या च सुम॒त्या ।
अग्ने᳚ रा॒यो दि᳚दीहि नः सुवृ॒क्तिभि᳚र्वरेण्य ॥
▶ पदपाठः (Word-by-word)
सः । नः॒ । धी॒ती । वरि᳚ष्ठया । श्रेष्ठ᳚या । च॒ । सु॑म॒त्या ।
अग्ने᳚ । रा॒यः । दि॒दी॒हि॒ । नः॒ । सु॒वृ॒क्ति॑भिः᳚ । व॒रे॒ण्य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुवृक्तिभिः स्तुतिभिः स्तूयमान वरेणय वरणीय हेअग्ने सत्वंवरिष्ठया वरतमेन श्रेष्ठया अतिशयेनप्रशस्येननोधीती धीत्या अस्मदीयेनपरिचरणात्मकेनकर्मणा सुमत्याच सुमतिरितिशस्त्रमुच्यते शस्त्रेणचप्रीतः सन् रायोधनानिनोस्मभ्यं दीदिहि देहि ॥ ३ ॥

5.25.4 समानपद
अ॒ग्निर्दे॒वेषु᳚ राजत्य॒ग्निर्मर्ते᳚ष्वावि॒शन् ।
अ॒ग्निर्नो᳚ हव्य॒वाह᳚नो॒॑ग्निं धी॒भिः स᳚पर्यत ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । दे॒वेषु᳚ । रा॒ज॒ति॒ । अ॒ग्निः । मर्ते᳚षु । आ॒॑वि॒शन् ।
अ॒ग्निः । नः॒ । ह॒व्य॒॑वाह᳚नः᳚ । अ॒ग्निम् । धी॒भिः । स॒प॒र्य॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योग्निर्देवेषु देवानांमध्येराजति देवतारूपेणप्रकाशते योग्निर्मर्तेषु मनुष्येषु आविशन् आहवनीयादिरूपेणप्रविष्टोभवति योग्निर्नोस्माकंहव्यवाहनोभवति अस्मदीयेषुयज्ञेषुदेवतार्थं हव्यानांवोढाभवति हेयजमानाः तमग्निंधीभिःस्तुतिभिःसपर्यत परिचरत ॥ ४ ॥ पुत्रकामेष्ठ्यांअग्निस्तुविश्रवस्तममितिद्वेस्विष्टकृतोयाज्यानुवाक्ये सूत्रितंच-अग्निस्तुविश्रवस्तममितिद्वेसंयाज्येइति ।

5.25.5
अ॒ग्निस्तु॒विश्र᳚वस्तमं तु॒विब्र᳚ह्माणमुत्त॒मम् ।
अ॒तूर्तं᳚ श्राव॒यत्प᳚तिं पु॒त्रं द᳚दाति दा॒शुषे᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । तु॒विश्र᳚वः॑तमम् । तु॒वि॑ब्र᳚ह्माणम् । उ॒त्॑त॒मम् ।
अ॒तूर्त᳚म् । श्र॒व॒यत्॑प᳚तिम् । पु॒त्रम् । द॒दा॒ति॒ । दा॒शुषे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निस्तुविश्रवस्तमं अतिशयेनबह्वन्नं तुविब्रह्माणं बहुस्तोत्रं उत्तममुत्कृष्टं अतूर्तं शत्रुभिरहिंसितं श्रावयत्पातीं श्रावयति विश्रुतान् करोति पतिन् पालयितॄन् पितॄनिति स्वकर्मणापितॄणांप्रख्यापकइतिश्रावयत्पतिः तथाविधं पुत्रं दाशुषेहवींषिदत्तवतेयजमानाय ददातिददातु ॥ ५ ॥

5.25.6
अ॒ग्निर्द᳚दाति॒ सत्प᳚तिं सा॒साह॒ यो यु॒धा नृभि᳚ः ।
अ॒ग्निरत्यं᳚ रघु॒ष्यदं॒ जेता᳚र॒मप᳚राजितम् ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । द॒दा॒ति॒ । सत्॑प᳚तिम् । स॒साह᳚ । यः । यु॒धा । नृ॑भिः᳚ ।
अ॒ग्निः । अत्य᳚म् । र॒घु॒॑स्यद᳚म् । जेता᳚रम् । अप᳚रा॑जितम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः पुत्रः युधा युद्धेन नृभिःपरिजनैः ससाह शत्रूनभिभवति सत्पतिं सतांपालयितारं तथाविधंपुत्रं अग्निर्ददाति अस्मभ्यंददातु किंचाग्निः रघुष्यदं रघुःलघुः स्यदोजवोयस्यतं जेतारंशत्रूणां अपराजितंशत्रुभिः अत्यं अततिसततंगच्छत्यत्योश्वःतंददातु ॥ ६ ॥

5.25.7 समानपद
यद्वाहि᳚ष्ठं॒ तद॒ग्नये᳚ बृ॒हद᳚र्च विभावसो ।
महि᳚षीव॒ त्वद्र॒यिस्त्वद्वाजा॒ उदी᳚रते ॥
▶ पदपाठः (Word-by-word)
यत् । वाहि᳚ष्ठम् । तत् । अ॒ग्नये᳚ । बृ॒हत् । अ॒र्च॒ । वि॒भा॒व॒सो॒ इति᳚ विभा॑वसो ।
महि᳚षी॑इव । त्वत् । र॒यिः । त्वत् । वाजाः᳚ । उत् । ई॒र॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाहिष्ठं वोढृतमं यत्स्तोत्रं तदग्नये क्रियते अतोहेविभावसो प्रभाधनाग्ने बृहत् बह्वन्नं धनं अर्च अस्मभ्यंप्रयच्छ कथमस्यान्नधनप्रदातृत्वमित्यपेक्षायामाह यतः त्वत् त्वत्तः सकाशात् महिषीमहती रयिर्धनं उदीरते उद्गच्छति वाजाःअन्नानिच त्वत् उदीरते उद्गच्छन्ति इवेतिपूरणः ॥ ७ ॥

5.25.8
तव᳚ द्यु॒मन्तो᳚ अ॒र्चयो॒ ग्रावे᳚वोच्यते बृ॒हत् ।
उ॒तो ते᳚ तन्य॒तुर्य᳚था स्वा॒नो अ᳚र्त॒ त्मना᳚ दि॒वः ॥
▶ पदपाठः (Word-by-word)
तव᳚ । द्यु॒॑मन्तः᳚ । अ॒र्चयः᳚ । ग्रावा᳚॑इव । उ॒च्य॒ते॒ । बृ॒हत् ।
उ॒तो इति᳚ । ते॒ । त॒न्य॒तुः । य॒था॒ । स्वा॒नः । अ॒र्त॒ । त्मना᳚ । दि॒वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने तवअर्चयोरश्मयः द्युमन्तोदीप्तिमन्तोभवन्ति बृहत् महत् त्वं ग्रावेव अभिषवग्रावेव उच्यते स्तूयसे उतअपिच त्मना आत्मना दिवोद्योतमानस्यतेतवस्वानःशब्दः तन्यतुर्यथामेघगर्जितमिवअर्तउद्गच्छति ॥ ८ ॥

5.25.9
ए॒वा{4} अ॒ग्निं व᳚सू॒यवः᳚ सहसा॒नं व᳚वन्दिम ।
स नो॒ विश्वा॒ अति॒ द्विष॒ः पर्ष᳚न्ना॒वेव᳚ सु॒क्रतु᳚ः ॥
▶ पदपाठः (Word-by-word)
ए॒व । अ॒ग्निम् । व॒सु॒॑यवः᳚ । स॒ह॒सा॒नम् । व॒व॒न्दि॒म॒ ।
सः । नः॒ । विश्वा᳚ । अति᳚ । द्विषः᳚ । पर्ष᳚त् । ना॒वा॑इ᳚व । सु॒॑क्रतुः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वसूयवोवसुकामावयंसहसानमस्माकंबलमिवाचरंतमग्निं एवमुक्तप्रकारेण ववन्दिम स्तुमः सुक्रतुः शोभनकर्मासोग्निर्नोस्मान् विश्वाः सर्वान् द्विषःशत्रून् अतिपर्षत् अतिपारयतु कथमिव नावासाधनेनसिंधुमिव ॥ ९ ॥

अग्नेपावकेतिनवर्चंद्वादशंसूक्तं वसूयवऋषयः गायत्रीछन्दः अग्निर्देवता तथाचानुक्रान्तम्-अग्नेगायत्रमिति । प्रातरनुवाकेआग्नेयेक्रतौगायत्रेछंदसिआशिनशस्त्रेचेदंसूक्तं सूत्रितंचअग्नेपावकदूतंवइतिसूक्तेइति । आधानेद्वितीयायामिष्टौप्रथमस्यहवि -षोग्नेपावकेत्येषायाज्या सूत्रितंच-सनः पावकदीदिवोग्नेपावकरोचिषेति ।