श्रवणम्

5.25.7 समानपद
यद्वाहि᳚ष्ठं॒ तद॒ग्नये᳚ बृ॒हद᳚र्च विभावसो ।
महि᳚षीव॒ त्वद्र॒यिस्त्वद्वाजा॒ उदी᳚रते ॥
▶ पदपाठः (Word-by-word)
यत् । वाहि᳚ष्ठम् । तत् । अ॒ग्नये᳚ । बृ॒हत् । अ॒र्च॒ । वि॒भा॒व॒सो॒ इति᳚ विभा॑वसो ।
महि᳚षी॑इव । त्वत् । र॒यिः । त्वत् । वाजाः᳚ । उत् । ई॒र॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाहिष्ठं वोढृतमं यत्स्तोत्रं तदग्नये क्रियते अतोहेविभावसो प्रभाधनाग्ने बृहत् बह्वन्नं धनं अर्च अस्मभ्यंप्रयच्छ कथमस्यान्नधनप्रदातृत्वमित्यपेक्षायामाह यतः त्वत् त्वत्तः सकाशात् महिषीमहती रयिर्धनं उदीरते उद्गच्छति वाजाःअन्नानिच त्वत् उदीरते उद्गच्छन्ति इवेतिपूरणः ॥ ७ ॥