अ॒ग्निर्दे॒वेषु᳚ राजत्य॒ग्निर्मर्ते᳚ष्वावि॒शन् ।
अ॒ग्निर्नो᳚ हव्य॒वाह᳚नो॒॑ग्निं धी॒भिः स᳚पर्यत ॥
अ॒ग्निर्नो᳚ हव्य॒वाह᳚नो॒॑ग्निं धी॒भिः स᳚पर्यत ॥
पदपाठः (Word-by-word)
अ॒ग्निः । दे॒वेषु᳚ । रा॒ज॒ति॒ । अ॒ग्निः । मर्ते᳚षु । आ॒॑वि॒शन् ।
अ॒ग्निः । नः॒ । ह॒व्य॒॑वाह᳚नः᳚ । अ॒ग्निम् । धी॒भिः । स॒प॒र्य॒त॒ ॥
अ॒ग्निः । नः॒ । ह॒व्य॒॑वाह᳚नः᳚ । अ॒ग्निम् । धी॒भिः । स॒प॒र्य॒त॒ ॥
सायणभाष्यम् (Sayana Commentary)
योग्निर्देवेषु देवानांमध्येराजति देवतारूपेणप्रकाशते योग्निर्मर्तेषु मनुष्येषु आविशन् आहवनीयादिरूपेणप्रविष्टोभवति योग्निर्नोस्माकंहव्यवाहनोभवति अस्मदीयेषुयज्ञेषुदेवतार्थं हव्यानांवोढाभवति हेयजमानाः तमग्निंधीभिःस्तुतिभिःसपर्यत परिचरत ॥ ४ ॥ पुत्रकामेष्ठ्यांअग्निस्तुविश्रवस्तममितिद्वेस्विष्टकृतोयाज्यानुवाक्ये सूत्रितंच-अग्निस्तुविश्रवस्तममितिद्वेसंयाज्येइति ।