यद्यु᳚यु॒ज्रे कि᳚ला॒स्य᳚ः ॥
पदपाठः (Word-by-word)
यत् । यु॒यु॒ज्रे । कि॒ला॒स्यः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
एषां मरुतां पूर्वसूक्ते प्रस्तुतत्वादत्रान्वोदेशविषयत्वादेषामित्यस्यनिघातता जानमुत्पत्तिं कोवेद जानातिकः पुमान् कोवापुरापूर्वं अप्येषांमरुतां सुम्नेषु सुखेषु आस भवति यद्यदा एते किलास्यः किलासीः पृषतीरित्यर्थः तायुयुज्रे रथेयोजितवन्तः तदैषां स्थितिं बलल- क्षणानिसुखानिच कोजानातीत्यर्थः वेगविषये सर्वत्रवायोरुपमास्पदत्वादितिभावः ॥ १ ॥