श्रवणम्

5.53.16
स्तु॒हि भो॒जान्त्स्तु᳚व॒तो अ᳚स्य॒ याम᳚नि॒ रण॒न्गावो॒ न यव᳚से ।
य॒तः पूर्वा{4}᳚ इव॒ सखी{4}॒रनु᳚ ह्वय गि॒रा गृ᳚णीहि का॒मिनः᳚ ॥
▶ पदपाठः (Word-by-word)
स्तु॒हि । भो॒जान् । स्तु॒व॒तः । अ॒स्य॒ । याम᳚नि । रण᳚म् । गावः᳚ । न । यव᳚से ।
य॒तः । पूर्वा᳚न्॑इव । सखी᳚न् । अनु᳚ । ह्व॒य॒ । गि॒रा । गृ॒णी॒हि॒ । का॒मिनः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेऋषे स्तुवतः स्तुतिंकुर्वतोऽस्ययजमानस्य यामनि यज्ञे भोजान् दातॄन्मरुतः स्तुहि गावोनयवसे तृणादिभक्षणायगच्छन्त्योगावोय- थारमन्ते तद्वन्मरुतोपि रणन् रमन्तां यतोगच्छतोमरुतः पूर्वान् पुरातनान् सखीनिवानह्वय आह्वय कामिनस्तुतीच्छावतोमरुतोगिरा- स्तुत्या गृणीहिस्तुहि ॥ १६ ॥

प्रशर्धायेतिपंचदशर्चंदशमंसूक्तं श्यावाश्वस्यार्षं मरुद्देबताकं चतुर्दशीत्रिष्टुप् शिष्टाजगत्यः प्रशर्धायपंचोनाजागतमुपन्त्यात्रिष्टुबित्यनु- क्रान्तं सूक्तविनियोगोलैंगिकः आद्यैन्द्रामारुत्याप्रधानस्ययाज्या सूत्रितंच-प्रशर्धायमारुतायस्वभानवइत्यैन्द्रीमनूच्यमारुत्यायजेदिति ।