श्रवणम्

5.53.9 समानपद
मा वो᳚ र॒सानि᳚तभा॒ कुभा॒ क्रुमु॒र्मा व॒ः सिन्धु॒र्नि री᳚रमत् ।
मा व॒ः परि᳚ ष्ठात्स॒रयु᳚ः पुरी॒षिण्य॒स्मे इत्सु॒म्नम᳚स्तु वः ॥
▶ पदपाठः (Word-by-word)
मा । वः॒ । र॒सा । अनि᳚तभा । कुभा᳚ । क्रुमुः᳚ । मा । वः॒ । सिन्धुः᳚ । नि । री॒र॒म॒त् ।
मा । वः॒ । परि᳚ । स्था॒त् । स॒रयुः᳚ । पु॒री॒षिणी᳚ । अ॒स्मे इति᳚ । इत् । सु॒म्नम् । अ॒स्तु॒ । वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतोवोयुष्मान् रसा नदीनामैतत् रसानदीभवतीतिनिरुक्तम् । रसनवती शब्दवती अनितभा इताप्राप्ताभायस्याः साइतभा नतादृ- शीअनितभा कुभा कुत्सितदीप्तिश्च मानिरीरमत् मानिकृष्टंरमतु क्रुमुः सर्वत्रक्रमणः सोन्धुः समुद्रश्च मानिरीरमत् तथापुरीषिणीपुरीष- मुदकं तद्वतीस्रयुरपि मापरिष्ठात् परितस्तिष्ठतु मानिरुणद्धु अस्मेइत् अस्मास्वेवअस्तु सुम्नं त्वदागमनजनितंसुखं वोयुष्माकंसंबन्धि युष्मत्स्वभूतम् ॥ ९ ॥