श्रवणम्

5.53.11
शर्धं᳚शर्धं व एषां॒ व्रातं᳚व्रातं ग॒णंग᳚णं सुश॒स्तिभि᳚ः ।
अनु᳚ क्रामेम धी॒तिभि᳚ः ॥
▶ पदपाठः (Word-by-word)
शर्ध᳚म्॑शर्धम् । वः॒ । ए॒षा॒म् । व्रात᳚म्॑व्रातम् । ग॒णम्॑ग᳚णम् । सु॒श॒स्ति॑भिः᳚ ।
अनु᳚ । क्रा॒मे॒म॒ । धी॒ति॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः एषांवोयुष्माकं शर्धंशर्धं तत्तद्बलं व्रातंव्रातं अविवक्षितगणोव्राताः तंतंव्रातं वोगणंगणं तंतंसप्तसप्तसमुदायात्मकंगणंगणंच सुशस्तिभिः शाभेनस्तुतिभिः धीतिभिः कर्मभिः हविः प्रदानादिलक्षणैरनुक्रामेम अनुगच्छेम ॥ ११ ॥