श्रवणम्

5.53.14
अती᳚याम नि॒दस्ति॒रः स्व॒स्तिभि᳚र्हि॒त्वाव॒द्यमरा᳚तीः ।
वृ॒ष्ट्वी शं योराप᳚ उ॒स्रि भे᳚ष॒जं स्याम᳚ मरुतः स॒ह ॥
▶ पदपाठः (Word-by-word)
अति᳚ । इ॒या॒म॒ । नि॒दः । ति॒रः । स्व॒स्ति॑भिः᳚ । हि॒त्वा । अ॒व॒द्यम् । अरा᳚तीः ।
वृ॒ष्ट्वी । सम् । योः । आपः᳚ । उ॒स्रि । भे॒ष॒जम् । स्याम᳚ । म॒रु॒तः॒ । स॒ह ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतोवयं स्वस्तिभिः क्षेमैरवद्यंपापं हित्वा परित्यज्य निदोनिन्दकानरातीः शत्रून् तेरःप्राप्तान् यद्वा तिरःअन्तर्हितान् अतीयाम अतिक्रम्यगच्छेम तिरस्कुर्मइत्यर्थः अनेनानिष्टपरिहारः प्रार्थितः उत्तरेणेष्टप्राप्तिरुच्यते वृष्ट्वी वृष्टिषुयुष्मत्प्रेरितासु सतीषॄ शं सुखं योः पापानांयावनंच आपउदकानि शसःस्थानेजस् उस्रि गोयुक्तंभेषजं यद्यप्येतदुदकनाम तथापिपृथगपामभीधानादत्रतद्धेतुकार्यमन्न- मुच्यते तत्सर्वंसहस्याम लभेमहि हेमरुतोवयं यद्वा अपोयुष्मत्प्रेरिताः उक्तंसर्वंकुर्वन्तु वयंसर्वेसहैवस्याम भवेमयुष्मत्स्वभूताः ॥ १४ ॥