श्रवणम्

5.53.1
को वे᳚द॒ जान᳚मेषां॒ को वा᳚ पु॒रा सु॒म्नेष्वा᳚स म॒रुता᳚म् ।
यद्यु᳚यु॒ज्रे कि᳚ला॒स्य᳚ः ॥
▶ पदपाठः (Word-by-word)
कः । वे॒द॒ । जान᳚म् । ए॒षा॒म् । कः । वा॒ । पु॒रा । सु॒म्नेषु᳚ । आ॒स॒ । म॒रुता᳚म् ।
यत् । यु॒यु॒ज्रे । कि॒ला॒स्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषां मरुतां पूर्वसूक्ते प्रस्तुतत्वादत्रान्वोदेशविषयत्वादेषामित्यस्यनिघातता जानमुत्पत्तिं कोवेद जानातिकः पुमान् कोवापुरापूर्वं अप्येषांमरुतां सुम्नेषु सुखेषु आस भवति यद्यदा एते किलास्यः किलासीः पृषतीरित्यर्थः तायुयुज्रे रथेयोजितवन्तः तदैषां स्थितिं बलल- क्षणानिसुखानिच कोजानातीत्यर्थः वेगविषये सर्वत्रवायोरुपमास्पदत्वादितिभावः ॥ १ ॥