आ या᳚त मरुतो दि॒व आन्तरि᳚क्षाद॒मादु॒त ।
माव᳚ स्थात परा॒वतः᳚ ॥
माव᳚ स्थात परा॒वतः᳚ ॥
पदपाठः (Word-by-word)
आ । या॒त॒ । म॒रु॒तः॒ । दि॒वः । आ । अ॒न्तरि᳚क्षात् । अ॒मात् । उ॒त ।
मा । अव᳚ । स्था॒त॒ । प॒रा॒॑वतः᳚ ॥
मा । अव᳚ । स्था॒त॒ । प॒रा॒॑वतः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेमरुतः परावतः अत्यन्तदूरदेशात् दिवोद्युलोकादायात तथाअन्तरिक्षादायात उतअपिच अमात् अस्माल्लोकादायात परावतइत्य- त्रवायोज्यम् परावतोदूरदेशेतत्रतत्रद्युलोकादौ मावस्थात अवस्थितिंमाकुरुत ॥ ८ ॥