श्रवणम्

5.53.12
कस्मा᳚ अ॒द्य सुजा᳚ताय रा॒तह᳚व्याय॒ प्र य᳚युः ।
ए॒ना यामे᳚न म॒रुतः᳚ ॥
▶ पदपाठः (Word-by-word)
कस्मै᳚ । अ॒द्य । सु॑जा᳚ताय । रा॒त॑ह᳚व्याय । प्र । य॒युः॒ ।
ए॒ना । यामे᳚न । म॒रुतः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अद्यास्मिन्दिने कस्मै सुजाताय रातहव्याय दत्तहविष्काय प्रययुः प्रकर्षेणगच्छेयुः एना अनेन यामेन रथेनमरुतः ॥ १२ ॥