श्रवणम्

5.53.6 समानपद
आ यं नरः᳚ सु॒दान᳚वो ददा॒शुषे᳚ दि॒वः कोश॒मचु᳚च्यवुः ।
वि प॒र्जन्यं᳚ सृजन्ति॒ रोद᳚सी॒ अनु॒ धन्व᳚ना यन्ति वृ॒ष्टयः᳚ ॥
▶ पदपाठः (Word-by-word)
आ । यम् । नरः᳚ । सु॒॑दान᳚वः । द॒दा॒शुषे᳚ । दि॒वः । कोश᳚म् । अचु᳚च्यवुः ।
वि । प॒र्जन्य᳚म् । सृ॒ज॒न्ति॒ । रोद᳚सी॒ इति᳚ । अनु᳚ । धन्व᳚ना । य॒न्ति॒ । वृ॒ष्टयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नरोनेतारः सुदानवः शोभनदानाः मरुतोयंकोशं मेघनामैतत् अपांकोशवद्धारकं मेघं ददाशुषे हविर्दत्तवतेयजमानाय दिवोन्तरिक्षात् आअचुच्यवुः आच्यावयन्ति पर्जन्यं मेघं रोदसीअनु द्यावापृथिव्यावनुसृत्य विसृजन्ति विमोचयन्ति पश्चात् धन्वना सर्वत्र गच्छतोदकेन- सह वृष्टयोवृष्टिप्रदामरुतोयन्ति सर्वत्रव्याप्नुवन्ति ॥ ६ ॥