ऐतान्रथे᳚षु त॒स्थुष॒ः कः शु᳚श्राव क॒था य᳚युः ।
कस्मै᳚ सस्रुः सु॒दासे॒ अन्वा॒पय॒ इळा᳚भिर्वृ॒ष्टयः᳚ स॒ह ॥
कस्मै᳚ सस्रुः सु॒दासे॒ अन्वा॒पय॒ इळा᳚भिर्वृ॒ष्टयः᳚ स॒ह ॥
पदपाठः (Word-by-word)
आ । ए॒तान् । रथे᳚षु । त॒स्थुषः᳚ । कः । शु॒श्रा॒व॒ । क॒था । य॒युः॒ ।
कस्मै᳚ । स॒स्रुः॒ । सु॒॑दासे᳚ । अनु᳚ । आ॒पयः᳚ । इळा᳚भिः । वृ॒ष्टयः᳚ । स॒ह ॥
कस्मै᳚ । स॒स्रुः॒ । सु॒॑दासे᳚ । अनु᳚ । आ॒पयः᳚ । इळा᳚भिः । वृ॒ष्टयः᳚ । स॒ह ॥
सायणभाष्यम् (Sayana Commentary)
एतान्मरुतोरथेषु तस्थुषः स्थितवतः कआशुश्राव श्रावयेदित्यर्थः यद्वैतेषां क्रोशध्वनिं रथध्वनिंच कःश्रृणुयात् कथा कथं ययुर्गच्छन्ति तदपिकोजानाति यद्वा तान् कथमन्येदेवादयोअनुगच्छेयुः कस्मै सुदासे सुदानाय आपयोबन्धुभूताव्याप्ताः वृष्टयोवर्षकाः अयंकर्तरिक्तिच् इलाभिर्बहुविधैरन्नैःसह सहिताः अनुसस्रुः अनुक्रमेणावतरेयुः ॥ २ ॥