श्रवणम्

5.53.7 समानपद
त॒तृ॒दा॒नाः सिन्ध᳚व॒ः क्षोद᳚सा॒ रज॒ः प्र स᳚स्रुर्धे॒नवो᳚ यथा ।
स्य॒न्ना अश्वा᳚ इ॒वाध्व᳚नो वि॒मोच᳚ने॒ वि यद्वर्त᳚न्त ए॒न्य᳚ः ॥
▶ पदपाठः (Word-by-word)
त॒तृ॒दा॒नाः । सिन्ध᳚वः । क्षोद᳚सा । रजः᳚ । प्र । स॒स्रुः॒ । धे॒नवः᳚ । य॒था॒ ।
स्य॒न्नाः । अश्वाः᳚॑इव । अध्व᳚नः । वि॒॑मोच᳚ने । वि । यत् । वर्त᳚न्ते । ए॒न्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सिन्धवः स्यन्दमानाअपः ततृदानाः निर्भिदन्तोमेघात् मरुतः क्षोदसा उदकेनसह रजोन्तरिक्षं प्रसस्रुः प्रसरन्ति धेनवोयथापयः सिं- चन्त्योनवप्रसूतिकागावइव किंचदृष्टान्तान्तरं स्यन्नाआशुगतयोश्वाइव यथाध्वनोविमोचने मनुष्याणामध्वविमोकायसंचरन्तितथेत्यर्थः यद्यदाएन्यः नदीनामैतत् न्द्योविवर्तन्ते विविधंसंचरन्ति अथवा प्रतिनिवृत्य वर्तन्ते प्रवर्धन्तेइत्यर्थः तदैवंकुर्वन्तीतिपूर्वत्रान्वयः ॥ ७ ॥