येन᳚ तो॒काय॒ तन᳚याय धा॒न्यं१॒᳚ बीजं॒ वह᳚ध्वे॒ अक्षि᳚तम् ।
अ॒स्मभ्यं॒ तद्ध᳚त्तन॒ यद्व॒ ईम᳚हे॒ राधो᳚ वि॒श्वायु॒ सौभ᳚गम् ॥
अ॒स्मभ्यं॒ तद्ध᳚त्तन॒ यद्व॒ ईम᳚हे॒ राधो᳚ वि॒श्वायु॒ सौभ᳚गम् ॥
पदपाठः (Word-by-word)
येन᳚ । तो॒काय᳚ । तन᳚याय । धा॒न्य᳚म् । बीज᳚म् । वह᳚ध्वे । अक्षि᳚तम् ।
अ॒स्मभ्य᳚म् । तत् । ध॒त्त॒न॒ । यत् । वः॒ । ईम᳚हे । राधः᳚ । वि॒श्व॑आ᳚यु । सौभ᳚गम् ॥
अ॒स्मभ्य᳚म् । तत् । ध॒त्त॒न॒ । यत् । वः॒ । ईम᳚हे । राधः᳚ । वि॒श्व॑आ᳚यु । सौभ᳚गम् ॥
सायणभाष्यम् (Sayana Commentary)
हेमरुतोयेनसदयेनमनसा तोकाय पुत्राय तनयाय तत्पुत्राय धनायवा धान्यं बीजं अक्षितं अक्षीणं वहध्वे धारयध्वे तेनचित्तेनास्मभ्यं तद्धान्यंबीजं धत्तन यच्चवोयुष्मानीमहे याचामहे राधोधनं विश्वायु सर्वान्नोपेतं कृत्स्नायुय्ष्योपेतंवा सौभगं सौभाग्यंच तद्धत्तनेतिसमन्वयः ॥ १३ ॥