श्रवणम्

5.53.3
ते म᳚ आहु॒र्य आ᳚य॒युरुप॒ द्युभि॒र्विभि॒र्मदे᳚ ।
नरो॒ मर्या᳚ अरे॒पस᳚ इ॒मान्पश्य॒न्निति᳚ ष्टुहि ॥
▶ पदपाठः (Word-by-word)
ते । मे॒ । आ॒हुः॒ । ये । आ॒॑य॒युः । उप᳚ । द्यु॑भिः᳚ । वि॑भिः᳚ । मदे᳚ ।
नरः᳚ । मर्याः᳚ । अ॒रे॒पसः᳚ । इ॒मान् । पश्य᳚न् । इति᳚ । स्तु॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋषिरृग्द्वयाभ्यांमरुत्प्रादुर्भावमाख्यास्यन् अनया प्रादुर्भूतान्पश्यन्नाह-तेमरुतः इत्थंलपते मे मह्यमाहुः येउपाययुः येमरुतोमांप्राप्ताः कैः साधनैः द्युभिर्द्योतमानैः विभिर्गन्तृभिरश्वैः किमर्थं मदे मदाय सोमपानजनिताय किमाहुरिति तदनुब्रूते नरोनेतारोमर्याः मनुष्येभ्योहि- ताः अरेपसोऽलेपास्ते हेऋषे इमानस्मान् पश्यन् तथास्थितान् चक्षुषावलोकयन् स्तुहीत्याहुः यद्वा इतिइत्थंपश्यन् स्तुहीति ॥ ३ ॥