स्तो॒ता वा᳚मश्विना॒वृषि॒ः स्तोमे᳚न॒ प्रति᳚ भूषति॒ माध्वी॒ मम᳚ श्रुतं॒ हव᳚म् ॥
पदपाठः (Word-by-word)
स्तो॒ता । वा॒म् । अ॒श्वि॒नौ॒ । ऋषिः᳚ । स्तोमे᳚न । प्रति᳚ । भू॒ष॒ति॒ । माध्वी॒ इति᳚ । मम᳚ । श्रु॒त॒म् । हव᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हेअश्विनौ एकःप्रतिशब्दोनुवादः वां युवयोः प्रियतमंरथं स्तोताऋषिरवस्युः स्तोमेनप्रतिभूषति अलंकरोति कीदृशंरथं वृषणं वर्षिता- रंफलानां वसुवाहनं धनानांवाहकं ईदृशंरथं आगमनायस्तौतीत्यर्थः तस्मात् हेमाध्वी मधुविद्यावेदितारौ मम हवमाह्वानं श्रुतं श्रृणुतं ॥ १ ॥