अभू᳚दु॒षा रुश᳚त्पशु॒राग्निर᳚धाय्यृ॒त्वियः᳚ ।
अयो᳚जि वां वृषण्वसू॒ रथो᳚ दस्रा॒वम᳚र्त्यो॒ माध्वी॒ मम᳚ श्रुतं॒ हव᳚म् ॥
अयो᳚जि वां वृषण्वसू॒ रथो᳚ दस्रा॒वम᳚र्त्यो॒ माध्वी॒ मम᳚ श्रुतं॒ हव᳚म् ॥
पदपाठः (Word-by-word)
अभू᳚त् । उ॒षाः । रुश᳚त्॑पशुः । आ । अ॒ग्निः । अ॒धा॒यि॒ । ऋ॒त्वियः᳚ ।
अयो᳚जि । वा॒म् । वृ॒ष॒ण्व॒सू॒ इति᳚ वृषण्॑वसू । रथः᳚ । द॒स्रौ॒ । अम᳚र्त्यः । माध्वी॒ इति᳚ । मम᳚ । श्रु॒त॒म् । हव᳚म् ॥
अयो᳚जि । वा॒म् । वृ॒ष॒ण्व॒सू॒ इति᳚ वृषण्॑वसू । रथः᳚ । द॒स्रौ॒ । अम᳚र्त्यः । माध्वी॒ इति᳚ । मम᳚ । श्रु॒त॒म् । हव᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
उषाः व्युष्टिरभूत् अग्निश्च रुशत्पशुः दीप्तपशुमान् प्रकाशितहविरित्यर्थः अथवा पशवः किरणाः रुशद्रश्मिःसन् अधायि वेद्यामधीयत हेवृषण्वसू प्रदत्तधनौ हेदस्रौ वांयुवयोः अमर्त्यः अमरणधर्मा ध्रुवारेथोयोजि अश्वैर्युक्तोभवत्वित्यर्थः छन्दसिलुङ्लङ् लिटइतिअनेकेष्वर्थे- षुलुङ्भवति इहप्रार्थनायां माध्वीत्यादिगतं ॥ ९ ॥
आभात्यग्निरितिपंचर्चंचतुर्थंसूक्तं भौमस्यात्रेरार्षं त्रैष्टुभमाश्विनं अत्रानुक्रमणिका-आभातिपंचात्रिरिति । प्रवर्ग्येअभिष्टवार्थमिदंसूक्तं सूत्रितंच-आभात्यग्निर्ग्रावाणेवेति । प्रातरनुवाके आश्विनेक्रतौ त्रैष्टुभेछ्न्दसि आश्विनशस्त्रेच इदमादिकेद्वेसूक्ते सूत्र्यतेहि-आभात्यग्निरिति- सूक्तेइति । अप्तोर्यामेहोतुरतिरिक्तोक्थ्येइदंसूक्तं सूत्रितंच-आभात्यग्निःक्षेत्रस्यपतिनावयमितिपरिधानीयेति ।