अ॒त्याया᳚तमश्विना ति॒रो विश्वा᳚ अ॒हं सना᳚ ।
दस्रा॒ हिर᳚ण्यवर्तनी॒ सुषु᳚म्ना॒ सिन्धु᳚वाहसा॒ माध्वी॒ मम᳚ श्रुतं॒ हव᳚म् ॥
दस्रा॒ हिर᳚ण्यवर्तनी॒ सुषु᳚म्ना॒ सिन्धु᳚वाहसा॒ माध्वी॒ मम᳚ श्रुतं॒ हव᳚म् ॥
पदपाठः (Word-by-word)
अ॒ति॒॑आया᳚तम् । अ॒श्वि॒ना॒ । ति॒रः । विश्वाः᳚ । अ॒हम् । सना᳚ ।
दस्रा᳚ । हिर᳚ण्यवर्तनी॒ इति॒ हिर᳚ण्य॑वर्तनी । सु॑सु᳚म्ना । सिन्धु᳚॑वाहसा । माध्वी॒ इति᳚ । मम᳚ । श्रु॒त॒म् । हव᳚म् ॥
दस्रा᳚ । हिर᳚ण्यवर्तनी॒ इति॒ हिर᳚ण्य॑वर्तनी । सु॑सु᳚म्ना । सिन्धु᳚॑वाहसा । माध्वी॒ इति᳚ । मम᳚ । श्रु॒त॒म् । हव᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हेअश्विना अत्यायातं सर्वान्यजमानानतिक्रम्यागच्छतं यथाअहमृषिर्विश्वाः सर्वाः अस्मद्विरोधिप्रजाः सना सदातिरस्करोमि अथवा अहं तिरः तिरःसतइतिप्राप्तस्येतिनिरुक्तम् । प्राप्ताः सर्वाः विश्वाः क्रियाः युष्मदीयाअनुतिष्ठेयमित्यर्थः सना सनातनौ दस्रा शत्रूणामुपक्ष- पयितारौ हिरण्यवर्तनी हिरण्यरथौ पुम्ना सुधनौ सिन्धुवाहसा नदीनांप्रवाहयितारौ वृष्टिप्रेरणेन तादृशौयुवां अत्यायातं ॥ २ ॥