आ नो॒ रत्ना᳚नि॒ बिभ्र᳚ता॒वश्वि᳚ना॒ गच्छ᳚तं यु॒वम् ।
रुद्रा॒ हिर᳚ण्यवर्तनी जुषा॒णा वा᳚जिनीवसू॒ माध्वी॒ मम᳚ श्रुतं॒ हव᳚म् ॥
रुद्रा॒ हिर᳚ण्यवर्तनी जुषा॒णा वा᳚जिनीवसू॒ माध्वी॒ मम᳚ श्रुतं॒ हव᳚म् ॥
पदपाठः (Word-by-word)
आ । नः॒ । रत्ना᳚नि । बिभ्र᳚तौ । अश्वि᳚ना । गच्छ᳚तम् । यु॒वम् ।
रुद्रा᳚ । हिर᳚ण्यवर्तनी॒ इति॒ हिर᳚ण्य॑वर्तनी । जु॒षा॒णा । वा॒जि॒नी॒व॒सू॒ इति᳚ वाजिनी॑वसू । माध्वी॒ इति᳚ । मम᳚ । श्रु॒त॒म् । हव᳚म् ॥
रुद्रा᳚ । हिर᳚ण्यवर्तनी॒ इति॒ हिर᳚ण्य॑वर्तनी । जु॒षा॒णा । वा॒जि॒नी॒व॒सू॒ इति᳚ वाजिनी॑वसू । माध्वी॒ इति᳚ । मम᳚ । श्रु॒त॒म् । हव᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हेअश्विना नोस्मभ्यं रत्नानि रमणीयानिधनानि बिभ्रतौ धारयन्तौ युवं युवां नोस्मान् वा आगच्छतं हेरुद्रा रुद्रपुत्रौ स्तुत्यौवा हेवा- जिनीवसू वाजिनधनौ युवां हिरण्यवर्तनी हिरण्यरथौ जुषाणा यज्ञंसेवमानौसन्तावागच्छतमिति माध्वीत्यादिगतं ॥ ३ ॥