अ॒स्मिन्य॒ज्ञे अ᳚दाभ्या जरि॒तारं᳚ शुभस्पती ।
अ॒व॒स्युम᳚श्विना यु॒वं गृ॒णन्त॒मुप᳚ भूषथो॒ माध्वी॒ मम᳚ श्रुतं॒ हव᳚म् ॥
अ॒व॒स्युम᳚श्विना यु॒वं गृ॒णन्त॒मुप᳚ भूषथो॒ माध्वी॒ मम᳚ श्रुतं॒ हव᳚म् ॥
पदपाठः (Word-by-word)
अ॒स्मिन् । य॒ज्ञे । अ॒दा॒भ्या॒ । ज॒रि॒तार᳚म् । शु॒भः॒ । प॒ती॒ इति᳚ ।
अ॒व॒स्युम् । अ॒श्वि॒ना॒ । यु॒वम् । गृ॒णन्त᳚म् । उप᳚ । भू॒ष॒थः॒ । माध्वी॒ इति᳚ । मम᳚ । श्रु॒त॒म् । हव᳚म् ॥
अ॒व॒स्युम् । अ॒श्वि॒ना॒ । यु॒वम् । गृ॒णन्त᳚म् । उप᳚ । भू॒ष॒थः॒ । माध्वी॒ इति᳚ । मम᳚ । श्रु॒त॒म् । हव᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हेअदाभ्या अहिंस्यौ हेशुभस्पती उदकस्यस्वामिनौ अश्विना युवं युवां अस्मिन्यज्ञे जरितारं स्तोतारं अवस्युं गृणन्तंस्तुवन्तंमां उपभू- षतः उपप्राप्नुतम् ॥ ८ ॥