अश्वि᳚ना॒वेह ग᳚च्छतं॒ नास᳚त्या॒ मा वि वे᳚नतम् ।
ति॒रश्चि᳚दर्य॒या परि᳚ व॒र्तिर्या᳚तमदाभ्या॒ माध्वी॒ मम᳚ श्रुतं॒ हव᳚म् ॥
ति॒रश्चि᳚दर्य॒या परि᳚ व॒र्तिर्या᳚तमदाभ्या॒ माध्वी॒ मम᳚ श्रुतं॒ हव᳚म् ॥
पदपाठः (Word-by-word)
अश्वि᳚नौ । आ । इ॒ह । ग॒च्छ॒त॒म् । नास᳚त्या । मा । वि । वे॒न॒त॒म् ।
ति॒रः । चि॒त् । अ॒र्य॒॑या । परि᳚ । व॒र्तिः । या॒त॒म् । अ॒दा॒भ्या॒ । माध्वी॒ इति᳚ । मम᳚ । श्रु॒त॒म् । हव᳚म् ॥
ति॒रः । चि॒त् । अ॒र्य॒॑या । परि᳚ । व॒र्तिः । या॒त॒म् । अ॒दा॒भ्या॒ । माध्वी॒ इति᳚ । मम᳚ । श्रु॒त॒म् । हव᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हेअश्विना अश्विनौ इहास्मिन्यज्ञे आगच्छतं हेनासत्या माविवेनतं विगतकामौमाभवतं वेनतिःकान्तिकर्मा हेअदाभ्या अहिंस्यौपूज्यौ अर्यया अर्यौस्वामिनौयुवां सुपांसुलुगित्यादिना सुपोयाजादेशः तिरश्चित् अन्तर्हिताद्दरदेशादपि युवांवर्तिरस्मद्यज्ञगृहं परियातं आगछतं ॥ ७ ॥