श्रवणम्

5.75.6
आ वां᳚ नरा मनो॒युजो॑श्वा᳚सः प्रुषि॒तप्स᳚वः ।
वयो᳚ वहन्तु पी॒तये᳚ स॒ह सु॒म्नेभि᳚रश्विना॒ माध्वी॒ मम᳚ श्रुतं॒ हव᳚म् ॥
▶ पदपाठः (Word-by-word)
आ । वा॒म् । न॒रा॒ । म॒नः॒॑युजः᳚ । अश्वा᳚सः । प्रु॒षि॒त॑प्स᳚वः ।
वयः᳚ । व॒ह॒न्तु॒ । पी॒तये᳚ । स॒ह । सु॒म्नेभिः᳚ । अ॒श्वि॒ना॒ । माध्वी॒ इति᳚ । मम᳚ । श्रु॒त॒म् । हव᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेनरा कर्मणांनेतारौ हेअश्विना अश्विनौ वां युवां मनोयुजोमनोमात्रेणयुज्यमानाः सुशिक्षिताइत्यर्थः प्रुषितप्सवः विचित्ररूपाः वयः शीघ्रगन्तारः अश्वासोश्वाः आवहन्तु पीतये सोमपानाय सुम्नेभिःसह अस्मभ्यंदेयैः सुखैस्तत्साधनैर्धनादिभिर्वासह वहन्तु ॥ ६ ॥